Book Title: Agnatkartuka vachurita
Author(s): Dhurandharvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ तथा हे ईश - स्वामिन्! ॥ [ हि निश्चितं, ] तथा ईं लक्ष्मीं, रासीति ईरः, तत्सं० ॥ तथा नास्ति भवः - संसारो यस्य स अभवः, 68 तत्सं० ॥ एवंविध हे वीर ! हे वर्द्धमान ! त्वं हि निश्चितं, कामं अभिलाषः तत् । जयसि-विजयसे इति क्रियाकारकसम्बन्धः । कथंभूतं कामं ?! वः कलहो विद्यते यत्र तद्विकलहकर्तृत्वात् ( ? ) । कथंभूतस्त्वं !, प्रसन्नः शुभ इति वीरस्तुतिः ॥ १ ॥ प्रथमोऽर्थः ॥ वि० व्याख्या ॥ विशिष्टं ज्ञानं विद्यते यस्य स विज्ञानः, तथा कं सुखं विद्यते यस्य स कः, तत्सं०॥ तथा हे वीर ! शूर !, तथा मानो गर्वस्तद्रूपो यो मतङ्गः- नीचस्वभावात् चाण्ड (ण्डा) ल: तेन मुक्तो वर्जितः, तत्सं० ॥ तथा ता-लक्ष्मीः - रलयोरैक्यत्वात् - तस्य आगमो - आगमनं विद्यते यस्य स तागमः, तत्सं० ॥ तथा दानं - उत्सर्गः, तस्य ता लक्ष्मीः, तस्या आलिः - श्रेणिर्विद्यते यस्य स दानतालिः, तत्सं० ॥ - तथा विजयो जयः, तस्य तरुः (वृक्ष), तत्सं० ॥ तथा हे पर ! - हे सर्वोत्कृष्ट ! ॥ Jain Education International तत्सं०॥ तथा सतामुत्तमानां पासि- रक्षसीति सत्पः, तत्सं० ॥ तथा आः तथा सूरयः पण्डिताः, तेषां ईशाः स्वामिन:, तेषु मध्ये हीर इव हीर: सूरीशीरः, तत्सं० ॥ तथा भवं श्रेयः प्रासि - पूरयसीति भवप्रः, तत्सं० ॥ - तथा हे सन् ! – उत्तम !, एवंविध हे पारगतवार ! - तीर्थंकरसमूह !, त्वं काममत्यर्थं मम मे, तमोऽज्ञानं, हर निवारय, इति क्रियाकारकसम्बन्धः ॥ कथंभूतः सः या - लक्ष्मीर्विद्यते यस्य स यः, तत्सं० ॥ पुनर्नः ज्ञानं विद्यते यस्य स नः, तत्सं० ॥ इति सर्वतीर्थंकरसाधारणस्तुतिः ॥ २ ॥ द्वितीयोऽर्थः ॥ ब्रह्मा-विष्णु-महेशा:, तेषां जिर्जेता अजि:, तत्सं० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4