Page #1
--------------------------------------------------------------------------
________________
श्रीहीरविजयसूरिकृता चतुरर्थी वीरस्तुतिः अज्ञातकर्तृकावचूरियुता
- सं. मुनि धुरन्धरविजय
नोंध : जगद्गुरु श्रीहीरविजयसूरिए रचेल एक पद्यात्मक वीरस्तुति नी अज्ञातकर्तृक अवचूरि एक प्रकीर्ण पत्रमां प्राप्त छे. तेना आधारे आ मूळ पद्यनुं संकलन करेल छे. एक ज पद्यना चार अर्थ थाय ते विशिष्ट काव्यकौशल्य
गणाय.
वीरस्तुति:
विज्ञानपारगत बालकवीरमानमातङ्गमुक्तममतागमदानतारि ! ॥ कामं तमोहरत परसत्पयोजे !
सूरीशहीरविजयस्य भव प्रसन्नः
॥ १ ॥
अवचूरिः
श्रीभगवत्यै नमः
विज्ञान० व्याख्या || विज्ञाः - निपुणाः, नाः प्राणिनः, तान् पालयसि - रक्षसीति विज्ञानपालः (पारः) । र-लयोरैक्यत्वात् । तत्संबोधने ॥
-
तथा गता बाला-ब-वयो र लयोरैक्यत्वात् केशा विद्यन्ते यस्य स गतबालो, व्रते गृहीते कचोत्पत्त्यभावत्वात् । स्वार्थे क प्रत्यये गतबालकः, तत्संबो० ॥ तथा मानं-गर्व:, तदेव मातङ्गो-हस्ती, अत्युत्कटत्वात् । तेन मुक्तो वर्जितः। तथा ममता - ममत्वं, तां गमयसि निवारयसीति ममतागमः, तत्सं० ॥ तथा दं-- वैराग्यं विद्यते यस्य स दस्तत्सं० ॥ तथाऽऽनता-प्रणता अरयो - वैरिणो विद्यन्ते यस्य स आनतारिः, तत्सं० ॥ तथा तमोऽज्ञानं अतिशयेन हरसीति तमोहरतरः तत्सं० ॥
न विद्यन्ते परे - वैरिणो यस्य सोऽपरः, तत्सं० ॥
तथा सत् - विद्यमानं पयोजं - कमलं विद्यते यत्र स सत्पयोजः,
हस्तपादादिषु कमलाद्याकारत्वात् ।
तथा ई:- लक्ष्मीः, तां सूते इति ईसूः, तत्सं० ॥
तत्सं० ॥
Page #2
--------------------------------------------------------------------------
________________
तथा हे ईश - स्वामिन्! ॥ [ हि निश्चितं, ] तथा ईं लक्ष्मीं, रासीति ईरः, तत्सं० ॥ तथा नास्ति भवः - संसारो यस्य स अभवः,
68
तत्सं० ॥
एवंविध हे वीर ! हे वर्द्धमान ! त्वं हि निश्चितं, कामं अभिलाषः तत् । जयसि-विजयसे इति क्रियाकारकसम्बन्धः । कथंभूतं कामं ?! वः कलहो विद्यते यत्र तद्विकलहकर्तृत्वात् ( ? ) । कथंभूतस्त्वं !, प्रसन्नः शुभ इति वीरस्तुतिः ॥ १ ॥ प्रथमोऽर्थः ॥
वि० व्याख्या ॥ विशिष्टं ज्ञानं विद्यते यस्य स विज्ञानः, तथा कं सुखं विद्यते यस्य स कः, तत्सं०॥ तथा हे वीर ! शूर !, तथा मानो गर्वस्तद्रूपो यो मतङ्गः- नीचस्वभावात् चाण्ड (ण्डा) ल: तेन मुक्तो वर्जितः, तत्सं० ॥
तथा ता-लक्ष्मीः - रलयोरैक्यत्वात् - तस्य आगमो - आगमनं विद्यते यस्य स तागमः, तत्सं० ॥
तथा दानं - उत्सर्गः, तस्य ता लक्ष्मीः, तस्या आलिः - श्रेणिर्विद्यते यस्य स दानतालिः, तत्सं० ॥
-
तथा विजयो जयः, तस्य तरुः (वृक्ष), तत्सं० ॥
तथा हे पर ! - हे सर्वोत्कृष्ट ! ॥
तत्सं०॥
तथा सतामुत्तमानां पासि- रक्षसीति सत्पः, तत्सं० ॥
तथा आः
तथा सूरयः पण्डिताः, तेषां ईशाः स्वामिन:, तेषु मध्ये हीर इव हीर: सूरीशीरः, तत्सं० ॥
तथा भवं श्रेयः प्रासि - पूरयसीति भवप्रः, तत्सं० ॥
-
तथा हे सन् ! – उत्तम !, एवंविध हे पारगतवार ! - तीर्थंकरसमूह !, त्वं काममत्यर्थं मम मे, तमोऽज्ञानं, हर निवारय, इति क्रियाकारकसम्बन्धः ॥ कथंभूतः सः या - लक्ष्मीर्विद्यते यस्य स यः, तत्सं० ॥ पुनर्नः ज्ञानं विद्यते यस्य स नः, तत्सं० ॥
इति सर्वतीर्थंकरसाधारणस्तुतिः ॥ २ ॥ द्वितीयोऽर्थः ॥
ब्रह्मा-विष्णु-महेशा:, तेषां जिर्जेता अजि:, तत्सं० ॥
Page #3
--------------------------------------------------------------------------
________________
विज्ञान० व्याख्या || विज्ञानं कला, तस्य पारो विद्यते यस्मात् स विज्ञानपारः तत्सं० ॥
69
तथा गतः वः कलहो विद्यते यस्य स गतवः, तत्सं० ॥
तथा नास्ति रः - कामो येषां ते अराः एवंविधा ये कवयः - कवितारः,
"
-
--
तेषां ई - लक्ष्मीं रासि - ददासीति अरकवीरः, तत्सं० ॥
तथा मां लक्ष्मीं नयसि - प्रापयसीति मानः, तत्सं० ॥
-
दानं - क्षय: तद्रूपो यो(यः) तालो वृक्षविशेषः - रलयोरैक्यत्वात्-तस्मि[न्] मतङ्गो-हस्ती । यथा हस्ती वृक्षमुन्मूलयति तथा त्वमपि क्षयं निवारयसि, तत्सं०] ||
तथा मुक्ता मा-लक्ष्मीः यैस्ते मुक्तमा: - साधवः, तेषां मत- इष्टः मुक्तममतः, तत्सं० ॥
तथा त: - युद्धं, मोहो- मोढ्यं, रतं मैथुनं, तेषां लोपो नाशः- रलयोरैक्यत्वात्-, तं रासि - ददासीति तमोहरतलोपरः, तत्सं० ॥
तथा सन्- विद्वान्, तद्रूपं यत् पयोजं - कमलं तत्र सूरिस्तरणिः, एवंविधः सन् ईशः - स्वामी सत्पयोजे सूरीशः, तत्सं० ॥
तथा इः-कामः, तं ईरयन्ति-प्रेरयन्तीति ईरा:, तेषां विजयो विद्यते यस्मात् सईरविजयः, तत्सं० ॥
तत्सं० ॥
तथा भवं श्रेय विद्यते यस्य स भवः, तथा प्र-प्रकर्षेण सन् - विद्यमानः प्रसन्, तत्सं० ॥
एवंविध हे आगम ! हे सिद्धान्त ! त्वं नोऽस्माकं कामं कन्दर्पं हि निश्चितं स्य-छेदय, इति क्रियाकारकसम्बन्धः ।
इति सिद्धान्तस्तुतिः ॥ ३ ॥ तृतीयोऽर्थः ॥
विज्ञान० व्याख्या | विज्ञानं कला तस्य पारः - प्रान्तः, तं गच्छसि इति विज्ञानपारगः, तत्सं० ॥
तः - युद्धं तं वारयसि - निवारयसीति तवारः, के तवारकः, तत्सं० o 11 तथा वीराः - शूराः, तेषु मानः- पूजा विद्यते यस्य स वीरमानः, तत्सं० ॥
-
Page #4
--------------------------------------------------------------------------
________________ 70 तथा मुक्ता-त्यक्ता ममता-ममत्वं येन स मुक्तममतः, तत्सं० / / तथा[आ-] समन्तात् गमस्य-ज्ञानस्य दानं-उत्सर्गो विद्यते यस्य स आगमदानः, तत्सं०॥ तथा ता-लक्ष्मीः, तस्याः आलिः -रलयोरैक्यत्वात्-श्रेणिः विद्यते यस्य स तालिः, तत्सं० रलयोरैक्यत्वात् / / तथा तमः हन्तीति तमोह: अर्थात् धर्मः, तत्र रता-आसक्ताः तेषां लोपोऽर्थात् कष्टं, स एव रोऽग्निः, तत्र सत्-शोभनं पयो-नीरं तमोहरतलोपरसत्पयाः, तत्सं० // तथा जिर्जेता, तत्सं० // एवंविध हे मातङ्गयक्ष ! त्वं काममत्यर्थं सूरीशहीरविजयस्य श्रीहीरविजयसूरेः प्रसन्नो भव, इति क्रियाकारकसम्बन्धः / / इति यक्षस्तुतिः // 4 // चतुर्थोऽर्थः / / इति अवचूरिः / /