Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ ओघनियुक्तिः मूलसूत्रं विशोधिस्तथा वक्ष्ये, चशब्दः समुच्चये, किं समुच्चिनोति ?-कारणप्रतिसेवने अकारणप्रतिसेवने च यथा शोधिस्तथा वक्ष्य इति । अत्राह-अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रोच्यते, यत्प्रतिलेखनाद्वारस्यपूर्वमुपन्यासःकृतस्तत्रतत्प्रयोजनं-सर्वैवक्रियाप्रतिलखनापूर्विकाकर्तव्येत्यस्यार्थस्य प्रतिपादनार्थं पूर्व प्रतिलेखनाद्वारमुपन्यस्तं. प्रतिलेखनोत्तरकालं ग्रहणं भवति अतः पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डोग्राह्य इति, तदनन्तरमुपधिद्वारस्योपन्यासः क्रियते, किमर्थमितिचेत.सहि पिण्डो नपात्रवन्धादिकमन्तरेणग्रहीतुंशक्यतेअत उपधिप्रमाणंतदनन्तरमभिधीयते. सचगृहीतः पिण्डउपधिश्व नवसतिमन्तरेणोपभोक्तुंशक्यते,अतः अनायतनवयं इत्यस्यद्वारस्योपन्यासःक्रियते,प्रतिलेखनांकुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जनं चेच्छतः कदाचित्क्वंचित्कश्चिदतिचारो भवतीत्यतोऽतिचारद्वार क्रियते. स चातिचारोऽवश्यमालोचनीयो भावशुद्ध्यर्थमत आलोचनाद्वारमभिधीयते, आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्यं यतो दीयतेऽतो विशुद्धिद्वारस्योपन्यासः क्रियत इत्यलमतिविस्तरेण॥ अधुनकैकं द्वारं व्याचष्टे, तत्र पर्यायतः प्रतिलेखनाद्वारख्याख्यानायाहमू. (२१) आभोगमग्गण गवेसणा य ईहा अपोह पडिलेहा। पेक्खणनिरिक्खणावि अआलोयपलोयनेगट्ठा॥ वृ. आभोगनमाभोगः, 'भुज पालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगनं-पालनमाभोगः प्रतिलेखनाभवति,मार्गणंमार्गणा 'मगअन्वेषणे' अशेषसत्त्वापीडयायदन्वेषणंसामार्गणेत्युच्यते,गवेषणं गवेषणा गवेषमार्गणे' अशेषदोषरहितवस्तुमार्गणंगवेषणेत्युच्यते,ईहनमीहाईहचेष्टायां'शुद्धवस्त्वन्वेषणरूपाचेष्टेहेत्युच्यते, साचप्रतिलेखनाभवति, अपोहनमपोहःअपोहः पृथग्भाव उच्यते, तथा चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां अन्यालाभे सति, स चापोहः प्रतिलेखनाभवति, प्रतिलेखनप्रतिलेखना,प्रतिप्रत्यागमानुसारेणनिरूपणमित्यर्थः, साचप्रतिलेखना।प्रेक्षणंप्रेक्षणा,प्रकर्षणेक्षणं दर्शनं प्रेक्षणेत्युच्यते, सा च प्रतिलेखना। निरीक्षणं निरीक्षणा, निः-आधिक्ये 'ईक्ष दर्शन' अधिकं दर्शनं निरीक्षणेत्युच्यते, अपिशब्दादन्योपसर्गयोगे चैकार्थिकसंभवो यथा-उपेक्षणेति, चशब्दादाभोगादीनां च शब्दानांयेपर्यायशब्दास्तेऽपिप्रतिलेख-नाद्वारस्यपर्यायशब्दाः।आलोकनमालोकः,मर्यादयाऽभिविधिना वा लोकनमित्यर्थः। प्रलोकनं प्रलोकना, प्रकर्षणालोकनमित्यर्थः । ‘एगट्ठा' इति एकाथिकान्यमूनि अनन्तरोहिष्टानिभवन्ति। पुंल्लिङ्गताचप्राकृतलक्षणवशाभवत्येव.यथा-जसोतवोसल्लो.नपुंसकलिङ्गा अपि शब्दाः पुंल्लिङ्गाः प्रयुज्यन्ते एवमत्रापीति व्याख्याते सत्याह परःप्रतिलेखनं नपुंसकं, अत्र तु कानिचिन्नपुंसकानि कानिचित्स्त्रीलिङ्गानि कानिचित्पुंल्लिङ्कानि, तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि तत्कथमिति,अत्रोच्यते, एकंतावत्प्राकृतशैलीमङ्गीकृत्यनपुंसकस्यापिस्त्रीलिङ्गपुंल्लिङ्गःपर्यायाभिधानमदुष्टं तथाऽन्यत्प्रयोजनं, संस्कृतेऽप्येकस्यैव शब्दस्य त्रयमपि भवति, यथा तटस्तटी तटमिति, तदत्र भिन्नलिङ्गाः शब्दाःकेनकारणेनपर्यायशब्दानभवन्तीति|आह-प्रतिलेखनाग्रहणेनकिंसैवकेवलागृह्यते? किमन्यदपि?. अन्यदपि किं तत् ?, 'पडिलेहओय' इत्यादि, अथवा का पुनरत्र प्ररूपणा? इति तदर्थं ब्रवीतिमू. (२२) पडिलेहओ यपडिलेहणा च पडिलेहियव्वयं चेव। कुंभाइसुजह तियं परूवणा. एवमिहयंपि॥ वृ.प्रतिलिखतीतिप्रतिलेखकः-प्रवचनानुसारेणस्थानादिनिरीक्षकःसाधुरित्यर्थः चशब्दःसकारणादिस्वगतभेदानां समुच्चायकः, प्रतिलेखनप्रतिलेखना “दुविहा खनु पडिलेहा' इत्यादिना ग्रन्थेन वक्ष्यमाण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 436