________________
१४
ओघनियुक्तिः मूलसूत्रं विशोधिस्तथा वक्ष्ये, चशब्दः समुच्चये, किं समुच्चिनोति ?-कारणप्रतिसेवने अकारणप्रतिसेवने च यथा शोधिस्तथा वक्ष्य इति । अत्राह-अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रोच्यते, यत्प्रतिलेखनाद्वारस्यपूर्वमुपन्यासःकृतस्तत्रतत्प्रयोजनं-सर्वैवक्रियाप्रतिलखनापूर्विकाकर्तव्येत्यस्यार्थस्य प्रतिपादनार्थं पूर्व प्रतिलेखनाद्वारमुपन्यस्तं. प्रतिलेखनोत्तरकालं ग्रहणं भवति अतः पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डोग्राह्य इति, तदनन्तरमुपधिद्वारस्योपन्यासः क्रियते, किमर्थमितिचेत.सहि पिण्डो नपात्रवन्धादिकमन्तरेणग्रहीतुंशक्यतेअत उपधिप्रमाणंतदनन्तरमभिधीयते. सचगृहीतः पिण्डउपधिश्व नवसतिमन्तरेणोपभोक्तुंशक्यते,अतः अनायतनवयं इत्यस्यद्वारस्योपन्यासःक्रियते,प्रतिलेखनांकुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जनं चेच्छतः कदाचित्क्वंचित्कश्चिदतिचारो भवतीत्यतोऽतिचारद्वार क्रियते. स चातिचारोऽवश्यमालोचनीयो भावशुद्ध्यर्थमत आलोचनाद्वारमभिधीयते, आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्यं यतो दीयतेऽतो विशुद्धिद्वारस्योपन्यासः क्रियत इत्यलमतिविस्तरेण॥
अधुनकैकं द्वारं व्याचष्टे, तत्र पर्यायतः प्रतिलेखनाद्वारख्याख्यानायाहमू. (२१) आभोगमग्गण गवेसणा य ईहा अपोह पडिलेहा।
पेक्खणनिरिक्खणावि अआलोयपलोयनेगट्ठा॥ वृ. आभोगनमाभोगः, 'भुज पालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगनं-पालनमाभोगः प्रतिलेखनाभवति,मार्गणंमार्गणा 'मगअन्वेषणे' अशेषसत्त्वापीडयायदन्वेषणंसामार्गणेत्युच्यते,गवेषणं गवेषणा गवेषमार्गणे' अशेषदोषरहितवस्तुमार्गणंगवेषणेत्युच्यते,ईहनमीहाईहचेष्टायां'शुद्धवस्त्वन्वेषणरूपाचेष्टेहेत्युच्यते, साचप्रतिलेखनाभवति, अपोहनमपोहःअपोहः पृथग्भाव उच्यते, तथा चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां अन्यालाभे सति, स चापोहः प्रतिलेखनाभवति, प्रतिलेखनप्रतिलेखना,प्रतिप्रत्यागमानुसारेणनिरूपणमित्यर्थः, साचप्रतिलेखना।प्रेक्षणंप्रेक्षणा,प्रकर्षणेक्षणं दर्शनं प्रेक्षणेत्युच्यते, सा च प्रतिलेखना। निरीक्षणं निरीक्षणा, निः-आधिक्ये 'ईक्ष दर्शन' अधिकं दर्शनं निरीक्षणेत्युच्यते, अपिशब्दादन्योपसर्गयोगे चैकार्थिकसंभवो यथा-उपेक्षणेति, चशब्दादाभोगादीनां च शब्दानांयेपर्यायशब्दास्तेऽपिप्रतिलेख-नाद्वारस्यपर्यायशब्दाः।आलोकनमालोकः,मर्यादयाऽभिविधिना वा लोकनमित्यर्थः। प्रलोकनं प्रलोकना, प्रकर्षणालोकनमित्यर्थः । ‘एगट्ठा' इति एकाथिकान्यमूनि अनन्तरोहिष्टानिभवन्ति। पुंल्लिङ्गताचप्राकृतलक्षणवशाभवत्येव.यथा-जसोतवोसल्लो.नपुंसकलिङ्गा अपि शब्दाः पुंल्लिङ्गाः प्रयुज्यन्ते एवमत्रापीति व्याख्याते सत्याह परःप्रतिलेखनं नपुंसकं, अत्र तु कानिचिन्नपुंसकानि कानिचित्स्त्रीलिङ्गानि कानिचित्पुंल्लिङ्कानि, तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि तत्कथमिति,अत्रोच्यते, एकंतावत्प्राकृतशैलीमङ्गीकृत्यनपुंसकस्यापिस्त्रीलिङ्गपुंल्लिङ्गःपर्यायाभिधानमदुष्टं तथाऽन्यत्प्रयोजनं, संस्कृतेऽप्येकस्यैव शब्दस्य त्रयमपि भवति, यथा तटस्तटी तटमिति, तदत्र भिन्नलिङ्गाः शब्दाःकेनकारणेनपर्यायशब्दानभवन्तीति|आह-प्रतिलेखनाग्रहणेनकिंसैवकेवलागृह्यते? किमन्यदपि?. अन्यदपि किं तत् ?, 'पडिलेहओय' इत्यादि, अथवा का पुनरत्र प्ररूपणा? इति तदर्थं ब्रवीतिमू. (२२) पडिलेहओ यपडिलेहणा च पडिलेहियव्वयं चेव।
कुंभाइसुजह तियं परूवणा. एवमिहयंपि॥ वृ.प्रतिलिखतीतिप्रतिलेखकः-प्रवचनानुसारेणस्थानादिनिरीक्षकःसाधुरित्यर्थः चशब्दःसकारणादिस्वगतभेदानां समुच्चायकः, प्रतिलेखनप्रतिलेखना “दुविहा खनु पडिलेहा' इत्यादिना ग्रन्थेन वक्ष्यमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org