________________
मूलं-१८
कस्यचिद्राज्ञो विषये दुर्भिक्षं प्रभूतवार्षिकं संजातं, ततस्तेन दुर्भिक्षण सर्वमेव धान्यं क्षयं नीतं, लोकश्च विषन्नः,तस्मिन्नवसरेराज्ञाचिन्तितम्सर्वमेवराज्यममजनपदायत्तं,यदिजनपदोभवतिततःकोष्ठागारादीनां प्रभवः,जनपदाभावेतुसर्वाभावः, ततस्तत्संरक्षणार्थबीजनिमित्तंभक्तनिमित्तंचकोष्ठागारादिधान्यंददामीति, एवमनुचिन्त्यदापितं तस्यजनपदस्य, लोकश्चस्वस्थः संजातः, पुनर्द्विगुणं त्रिगुणंचप्रेषितं राज्ञइति॥अयं दृष्टान्तः, अधुना दाष्टान्तिकप्रतिपादनार्थमाहमू. (१९) एवं थेरेहिं इमा अपावमाणाण पयविभागंतु। साहूणनुकंपट्ठा उवइट्टा ओहनिजुत्ती॥
[भा.१४] वृ. 'एव'मित्युपनयग्रन्थः, यथा गृहपतिना बालादीनामनुकम्पार्थं भक्तं दत्तं, राज्ञा च बीजभक्तमनुग्रहार्थमेव दत्तं, एवं स्थविरैरोघनियुक्तिः साधूनामनुग्रहार्थं नियूंढेति. स्थविराःभद्रबाहुस्वामिनस्तैः. 'आत्मनि गुरुषु च बहुवचन मिति बहुवचनेन निर्देशः कृतः, ‘इमा' इति इयं वक्ष्यमाणलक्षणा प्रतिलेखनादिरूपा। किमर्थं निर्मूढा ?. तदाह- ‘अपावमाणाणं' इत्यादि. 'अप्राप्नुवतां' अनासादयतां, किमप्राप्नवतामित्याह 'पदविभाग' वर्तमानकालापेक्षया कल्परूपं, चिरन्तनकालापेक्षया तुदृष्टिवादव्यवस्थितपदविभागसामाचारीमित्यर्थः।तुशब्दाद्दशधासामाचारींचाप्राप्नुवतां, केषामनुकम्पार्थं नियूंढा?, तदाह-'साधूनां' ज्ञानादिरूपाभिः पौरुषेयीभिर्मोक्षं साधयन्तीति साधवस्तेषांसाधूनां, किम् ?. 'अनुकम्पार्थं' अनुकम्पा कृपा दया इत्येकोऽर्थः तया अर्थः-प्रयोजनं, 'उपदिष्टा' कथिता 'ओघनियुक्तिः' सामान्यार्थप्रतिपादिकेत्यर्थः॥आह-अथकेयमोघनियुक्तिःयास्थविरैः प्रतिपादिता?,तत्प्रतिपादनायाहमू. (२०) पडिलेहणं१च पिंडंर उवहिपमाणं३अनाययनवज्ज।
पडिसेवण५मालोअ६जह य विसोही७सुविहियाणं॥ वृ. एवं संबन्धे कृते सत्याह परः ननु पूर्वमभिहितम्, अर्हतो वन्दित्वौघनियुक्तिं वक्ष्ये, तत्किमर्थं वन्दनादिक्रियामकृत्वैवौघनियुक्तिं प्रतिपादयति इति, अत्रोच्यते, अविज्ञायैव परमार्थ भवतैतच्चोद्यते, इह हि वन्दनादिक्रिया प्रतिपादितैवासाधारणनामोद्घट्टनादेव, तथाहि-अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पजामर्हन्तीत्यर्हन्तः, तदनेनैव स्तवोऽभिहितः, एवं चतुर्दशपूर्वधरादिष्वपि योजनीयं, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः- पडिलेहणं' इति, लिखअक्षरविन्यासे' प्रतिलेखनप्रतिलेखनातांवक्ष्यामइति,एत-दुक्तंभवतिआगमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति । चशब्दात्प्रतिलेखक प्रतिलेखनीयं च वक्ष्ये। अथवाऽनेकाकारांप्रतिलेखनांचवक्ष्ये, उपाधिभेदात्। पिंडं तिपिण्डनं पिण्डः सङ्घात-रूपस्तंपिण्डं, वक्ष्य इतिप्रत्येकंमीलनीयं, भिक्षाशोधिमित्यर्थः। उपधिप्रमाणं' इति उपदधाती-त्युपधिः, उप-सामीप्येन संयम धारयति पोषयति चेत्यर्थः, स च पात्रादिरूपस्तस्य प्रमाणं, तच्च गणनाप्रमाणं प्रमाणप्रमाण च । 'अनाययनवज' इति नायतनमनायतनं तद्वयं-त्याज्यमित्येतच्च वक्ष्ये, अथवाऽनायतनवज्य॑मायतनं, तदायतनं वक्ष्ये, तच्चानायतनं स्त्रीपशुपण्डकसंसक्तं यद्वर्तते, तद्विपरीतमायतनं - 'पडिसेवणं' इतिप्रतीपा सेवनाप्रतिसेवना, एतदुक्तंभवति-संयमानुष्ठा-नात्प्रतीपमसंयमानुष्ठानंतदासेवना ताम्। 'आलोयण' इति आलोचनमालोचना अपराधमर्यादया लोचनं-दर्शनमाचार्यादरालोचनेत्यभिधीयते. किमालोचनामेव ?, नेत्याह-'जह य' इत्यादि, 'यथा' येन प्रकारेण 'विशोधिः विशेषेण शोधिर्विशोधिः एतदक्तं भवतिशिष्येणालोचितेऽपराधेसतितद्योग्यंयत्प्रायश्चित्तप्रदानंसाविशोधिरभिधीयते,तांविशोधि। केषांसंबन्धिनी विशोधिं ?, तदाह- 'सुविहितानां' शोभनं विहितम-अनुष्ठानं येषां ते सुविहितास्तेषां संबन्धिनी यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org