________________
ओघनियुक्तिः मूलसूत्रं एएण कारणेणं हवइ उचरणं महड्डीअं॥ . [भा.१०] वृ. 'एव'मित्युपनयग्रन्थः 'चरणंमि'त्ति चर्यत इति चरणं तस्मिन व्यवस्थितः करोति विधिना ग्रहणमितरेषाम. इतरेषामिति द्रव्यानुयोगादीनां, तदनेन कारणेन भवति चरणं महर्द्धिकम् तुशब्दादन्येषांचगुणानां समर्थो भवतीति। अधुना अल्पाक्षरांमहार्था'मिति यदुक्तं तद्व्याख्यानायाहमू. (१६) अप्पक्खरं महत्थं १ महक्खरऽप्पत्थ २ दोसुऽवि महत्थं ३।
दोसुऽवि अप्पं च ४ तहाभणिअंसत्थं चउविगप्पं॥ [भा.११] वृ. अत्र चतुर्भङ्गिका-अल्पान्यक्षराणि यस्मिन् तदल्पाक्षरं, स्तोकाक्षरमित्यर्थः, ‘महत्थं' इति महानों यस्मिनमहार्थंप्रभूतार्थमित्यर्थः तत्रैकंशास्त्रमल्पाक्षरंभवतिमहार्थंचप्रथमोभङ्गः१,अथान्यतकिंभूतंभवति?. 'महक्खरमप्पत्थं. महाक्षरं. प्रभृताक्षरमिति हृदयं, अल्पार्थं स्वल्पार्थमितिहृदयं, द्वितीयोभङ्गः२. तथाऽन्यत किंभूतं भवति? - 'दोसुऽवि महत्थं द्वयोरपीति अक्षरार्थयोः श्रुतत्वा-दक्षरार्थोभयंपरिगृह्यते. एतदक्तंभवतिप्रभूताक्षरं प्रभूतार्थं च तृतीया भङ्गः ३. तथाऽन्यत् किंभूतं भवति ? इत्याह-दोसुवि अप्पं च तहा' द्वयोरप्यल्पमक्षरार्थयोः, एतदुक्तं भवति-अल्पाक्षरं अल्पार्थं चेति ४ । 'तथे तितेनागमोक्तप्रकारेण भणितं' उक्तं शास्त्रं चतुर्विकल्प' चतुर्विधमित्यर्थः। अधुना चतुर्णामपि भङ्गकानामुदाहरणदर्शनार्थमिदंगाथासूत्रमाह ___ मू. (१७) सामायारी ओहे नायज्झयणा य दिट्ठिवाओ य। लोइअकप्पासाई अणुक्कमा कारगा चउरो॥
[भा. १२] वृ.ओघसामाचारीप्रथमभङ्गकेउदाहरणंभवति, पूर्वापरनिपातादेवमुपन्यासःकृतः १,ज्ञाता-ध्ययनानि षष्ठाङ्गे प्रथमश्रुतस्कन्धे तेषुकथानकान्युच्यन्ते ततः प्रभूताक्षरत्वमल्पार्थत्वं चेति द्वितीयभङ्गके ज्ञाताध्ययनान्युदाहरणं, चशब्दादन्यच्च यदस्यां कोटौ व्यवस्थितं २, दृष्टिवादश्च तृतीयभङ्गक उदाहरणं, यतोऽसौ प्रभूताक्षरःप्रभूतार्थच, चशब्दात्तदेकदेशोऽपि३.चतुर्थभङ्गोदाहरणप्रतिपादनार्थमाह- 'लोइयकप्पासादी' इति लौकिकंचतुर्थभङ्गे उदाहरणं, किंभूतम?-कार्पासादि,आदि-शब्दाच्छिवचन्द्रादिग्रहः, अनुक्कम'त्तिअनुक्रमादिति अनुक्रमेणैव-परिपादया, तृतीयार्थे पञ्चमी, 'कारकाणि' कुर्वन्तीतिकारकाणि-उदाहरणान्युच्यन्ते, चत्वारीति यथासंख्येनैवेति। अनुग्रहार्थं सुविहितानाम्' इति यदुक्तं तद्व्याख्यानायो-दाहरणगाथामू. (१८) बालाईणनुकंपा संखडिकरणंमि होअगारीणं। ओमे य बीयभत्तं रन्ना दिन्नं जनवयस्स॥
भा. १३] वृ. एव'मित्युपन्यासाद्यथेतिगम्यते.ततोऽयमोभवति-यथाह्यगारिणामनुकम्पाभवतिबालादीनामुपरिसंखडिकरणे, एवंस्थविर:साधूनामनुकम्पार्थमुपदिष्टौघनियुक्तिरितिसंबन्धः।अधुनाऽक्षरगमनिकाबालाः शिशवोऽभिधीयन्ते, ते आदिर्येषाम, आदिशब्दात्कर्मकरादिपरिग्रहः तेषां बालादीनामुपर्यनुकम्पा दयेत्यर्थः, संखडिकरणे' संखड्यन्तेप्राणिनायस्यांसासंखडिः,अनेकसत्त्वव्यापत्तिहेतुरित्यर्थः कृतिःकरणं संखड्याःकरणंसंखडिकरणंतस्मिनसंखडिकरणेयथाऽनुकम्पाभवति, केषाम? इत्याह-'अगारिणां'अगारं विद्यते येषां तेऽगारिणस्तेषामगारिणा. तथाहि-यभोजनं प्रहरत्रयोद्देशे भवति तस्मिन् यदि बालादीनां प्रथमालिकानदीयतेततोऽ-तिबभुक्षाक्रान्तानांकेषाश्चिन्मूर्छागमनंभवतिकेचित्पुनःकर्मादिकतुनशक्नवन्तिततोऽनुकम्पार्थप्रथमालिकाद्यसौगृहपतिःप्रयच्छति.अस्यैवदर्शनार्थदृष्टान्तान्तरमाह-'ओम' इत्यादि. अवमं-दुर्भिक्षं तस्मिन्नवमे बीजानि-शाल्यादीनि भक्तम्-अन्नं बीजानि च भक्तं च बीजभक्तमेकवद्भावः 'राजा' नरपतिना दत्तं, कस्य? तदाह-जनपदस्य॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org