________________
मुलं-१२ किम् ? तदाह- 'धर्मकथा' दुर्गती प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मस्तस्य कथा-कथनं धर्मकथा चरणप्रतिपत्तेर्हेतुर्धर्मकथा, तथाहि-आक्षेपण्यादिधर्मकथाऽऽक्षिप्ताः सन्तोभव्यप्राणिनचारित्रमवाप्नुवन्ति. 'कालदिक्खमाईय'त्तिकलनंकालःकलासमूहोवाकालस्तस्मिनकालेदीक्षा-दयः-दीक्षणंदीक्षा-प्रव्रज्याप्रदानमआदिशब्दादुपस्थापनादिपरिग्रहः, तथाचशोभनतिथि-नक्षत्रमुहूर्त्तयोगादौ प्रव्रज्याप्रदानकर्त्तव्यम, अतःकालानुयोगोऽप्यस्यवपरिकरभूतइति, दविए'त्तिद्रव्यद्रव्यानुयोकिंभवति? इत्यतआह-दर्शनशुद्धिः' दर्शनं सम्यग्दर्शनमभिधीयतेतस्यशुद्धिः निर्मलतादर्शनशुद्धिः, एतदक्तंभवतिद्रव्यानुयोगेसतिदर्शनशुद्धिभवति, युक्तिभिर्यथाऽवस्थितार्थ-परिच्छेदात. तदत्र चरणमपियुक्त्यनुगतमेव ग्रहीतव्यं, नपुनरागमादेव केवलादिति।आह-दर्शनशुद्ध्यैवकिम्?,तदाह-दर्शनशुद्धस्य दर्शनंशुद्धंयस्यासौदर्शनशुद्धस्तस्य चरणं' चारित्रभवतीत्यर्थः.तुशब्दो विशेषणे, चारित्रशुद्धस्यदर्शनमिति॥अथवाप्रकारान्तरेणचरणकरणानुयोगस्यैव प्राधान्यंप्रतिपाद्यतेआदिभृतस्यापीति.तच्च दृष्टान्तबलेनाचलंभवतिनान्यथेत्यतोदृष्टान्तद्वारेणाहमू. (१३) जह रन्नो विसएसुं वयर कणगे अ रयय लोहे । चत्तारि आगरा खलु चउण्ह पुत्ताण ते दिना॥
भा.८] वृ येथ'त्युदाहारणोपन्यासे राज्ञो 'विषयेषु' जनपदेषु 'वज्र' इति वज्राकरो भवति, वज्राणि-रत्नानि तेषामाकरः-खानिर्वज्राकरः। चिन्तालोहागरिए'त्तिइत्यतःसिंहावलोकितन्यायेनाकरग्रहणंसंबध्यते.एतेन कारणेन ‘होति उत्तिइत्यस्माद्भवति क्रिया सर्वत्र मीलनीयेति। 'कनकं' सुवर्ण तस्याकरो भवति द्वितीयः, 'रजतं' रूप्यंतद्विषयस्तृतीयआकरोभवति,चशब्द:समुच्चये,अनेकभेदभिन्नरूप्याकरंसमुच्चिनोति, लोहे यत्तिलोहमजस्तस्मिन्लोहे-लोहाविषयश्चतुर्थआकरोभवति, चशब्दोमृदुकठिनमध्यलोहभेदसमुच्चायकः, 'चत्वारः' इति सङ्ख्याः, आक्रियन्त एतेष्वित्याकराः, तथा च मर्यादयाऽभिविधिना वा कियन्ते वज्रादीनि तेष्विति, खलुशब्दो विशेषणे, किं विशिनष्टि?-सविषयाः सहस्त्यादयश्चते पुत्रेभ्यो दत्ताः, चतुर्णा पुत्राणां' सुतानां 'ते' इत्याकरा दत्ताः' विभक्ता इत्यर्थः।। अधुना प्रदानोत्तरकालं यत्तेषां संजातं तदुच्यतेमू. (१४) चिंता लोहागरिए पडिसेहं सो उकुणइ लोहस्स।
. वयराईहि अगहणं करिति लोहस्स तिन्नियरे॥ . भा.९] द.लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन लोहाकरिके चिन्ता भवति, राज्ञा परिभूतोऽहं येन ममाप्रधानआकरोदत्तः.एवंचिन्तायांसत्यांसुबळ्यभिधानेनमन्त्रिणाऽभिहितः-देव!माचिन्तांकुरु.भवदीय, एव प्रधान आकरो, न शेषा आकरा इति, कुत एतदवसीयते?, यदि भवत्संबन्धी लोहाकरो भवति तदानीं शेषाकरप्रवृत्तिः, इतरथालोहोपकरणाभावान्नप्रवृत्तिरिति,ततोऽनिवहिंकारयतुकतिचिदिनानियावदपक्षयं प्रतिपद्यते तेषूपकरणजातं, ततः सुमहार्धमपि ते लोहं ग्रहीष्यन्तीत्यत आह-पडिसेह' इत्यादि, प्रतिषेधोवारणा तं प्रतिषेधं करोत्यसौ लाहं प्रतीतमेव तस्य लोहस्य, तुशब्दो विशेषण, न केवलमनिर्वाह करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषुषस्कराः क्षयं प्रतिपन्नाः, ततस्ते वज्रादिभिर्ग्रहणं कुर्वन्ति इतरे वज्राकरिकादयः, चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च, अत्र कथानकं स्पष्टत्वान्न लिखितम्, अयं दृष्टान्तः साम्प्रतंदाष्टान्तिकयोजनाक्रियते-यथाऽसौलाहाकारआधारभृतःशेषाकराणां,तत्प्रवृत्तौशेषाणामपि प्रवृत्तेः. एवमत्रापिचरणकरणानुयोगेसतिशेषानुयोगसद्भावः. तथाहि-चरणेव्यवस्थितःशेषानुयोगग्रहणे समर्थो भवति, नान्यथेति ॥ अस्यार्थस्य प्रतिपादनार्थ गाथासूत्रमाह
मू. (१५) एवं चरणंमि ठिओ करेइ गहणं विहीड इयरेसिं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org