________________
मूलं-२२
१५
लक्षणा, चशब्दोभेदसूचकः,प्रतिलेख्यतइतिप्रतिलखितव्यं ठाणेउपकरणे" इत्यादिनावक्ष्ममाणं, चशब्द: पूर्ववत. एवकारोऽवधारणे, नातस्त्रिकादतिरिक्त मस्ति । आह-कथं पुनः प्रतिलेखकप्रतिलेखितव्ययोरनुक्त योर्ग्रहणमिति ?, दण्डमध्यग्रहणन्यायात, अथवा ग्रन्थेनैवोच्यते- 'कुंभादीसु' कुम्भो-घटः, आदिशब्दात्कुटपटशकटग्रहः यथा' येनप्रकारेण त्रिकं त्रितयं,त्रीणीत्यर्थः, प्ररूपणानिप्ररूपणाः ‘एवं'ति तथातेनप्रकारेण, इहे तिप्रतिलखनायां, अपिशब्दःसाधर्म्यदृष्टान्तप्रतिपादनार्थः, यथाकर्ताकुलालःकरणं मृत्पिण्डदण्डादि कार्य कुटः, परस्परापेक्षतया नैकमेकनापि विनेति, तथा प्रतिलेखना क्रिया. सा च कर्तार प्रतिलेखकमपेक्षत, प्रतिलखितव्याभावे चोभयोरभावस्तस्मात्रीण्येतानि-प्रतिलेखकः प्रतिलेखना प्रतिलेखितव्यंचेति॥इहच यथोद्देशंनिर्देश'इतिन्यायमङ्गीकृत्यप्रतिलेखकआद्यःकर्तृत्वात्प्रधानश्चेत्यतस्तव्याख्यानार्थमाह-पडिदारगाहा मू. (२३) एगा व अनगा वा. दुविहा पडिलेहगा समासणं।
ते विहा नायव्वा निक्कारणिआ य कारणिआ॥ वृ.सुगमा, नवरं निक्कारणिआय' इतिचशब्दाद्गच्छंस्तिष्ठनविशेषणे चात्रद्रष्टव्ये॥सकारणाकारणनिर्णयार्थमाहमू. (२४) असिवाई कारणिआ निक्कारणिआय चक्कथूभाई।
तत्थेगंकारणिअंवोच्छं ठप्पा उतिन्नियरे॥ वृ.सुगमा, नवरं- 'तत्थेगं' इति तत्र' तेष्वेकानेकसकारणगच्छन्तिष्ठन्प्रतिलेखकेषुयएकःसकारणो गच्छन्तं वक्ष्ये। तावत्तिष्ठन्तु त्रयः-सकारणानेकनिष्कारणैकानेकभेदाः, तुशब्दात्स्थान-स्थितश्च, 'इतरे' अन्य इत्यर्थः॥ कियन्ति पुनस्तान्यशिवादीनि? येष्वसावेकाकी भवतीत्याहमू. (२५) असिवे आमोयरिए रायभए खुहिअ उत्तमट्टे अ।
फिडिअगिलाणाइसए देवया चेव आयरिए॥ वृ.नशिवमशिवं-देवतादिजनितोज्वराद्युपद्रवः, अवमादरिकं-दुर्भिक्षं, राज्ञोभयंराजभयं,क्षुभितंक्षोभः, संत्रास इत्यर्थः, उत्तमार्थः-अनशनं 'फिडित' इति भ्रष्टो मार्गात् ‘ग्लानो' मन्दः, अतिशयः-अतिशययुक्तः, देवताचार्यो प्रतीती, अयं तावदक्षरार्थः। भावार्थस्य भाष्यकार एकैकं द्वारमङ्गीकृत्य प्रतिपादकः। यथोद्देशं निर्देश' इतिन्यायादत्राद्यद्वारमाश्रित्ययोविधिरसावभिधीयते-इहाशिवमेका-कित्वस्यहेतुत्वेवर्तते.तस्मात्तथा कर्तव्यं यथा तन्न भवत्येव॥केन पुनःप्रकारेण तन्न भवतीति चेत्स उच्यते - .मू. (२६) संवच्छरबारसएण होही असिवंति ते (तइ) तओ निति। .. सुत्तत्थं कुव्वंता अइसयमाइंहिं नाऊणं॥
[भा.१५] वृ. सँघत्सराणां द्वादशकं. दश च द्वौ च द्वादश, तेन भविष्यत्यशिवमिति ज्ञात्वा 'त' इति। (तइत्ति) तदेव तत' इतितस्मात्क्षेत्रात् निति निर्गच्छन्ति,सूत्रपौरुषीमर्थपौरुषींच कुर्वन्तः'निष्पादयन्तोऽन्यदेशमभविष्यदशिवं विश्वस्ताः संक्रमन्ति। कथं पुनर्जायते? - अतिशय आदिर्येषां तेऽतिशयादयो ज्ञानहेतवस्तैः॥ अतिशयादि प्रतिपादयन्नाह . ___मू. (२७) अइसेस देवया वा निमित्तगहणं सयं व सीसो वा।
परिहाणि जाव पत्तं निग्गमणि गिलाणपडिबंधो॥ [भा. १६] वृ. अतिशयः-अवध्यादिस्तदभाव क्षपकादिगुणाकृष्टा देवता कथयति, अहवा आयरिण्यं सुत्तत्थेसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org