Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ ओघनियुक्तिः मूलसूत्रं एएण कारणेणं हवइ उचरणं महड्डीअं॥ . [भा.१०] वृ. 'एव'मित्युपनयग्रन्थः 'चरणंमि'त्ति चर्यत इति चरणं तस्मिन व्यवस्थितः करोति विधिना ग्रहणमितरेषाम. इतरेषामिति द्रव्यानुयोगादीनां, तदनेन कारणेन भवति चरणं महर्द्धिकम् तुशब्दादन्येषांचगुणानां समर्थो भवतीति। अधुना अल्पाक्षरांमहार्था'मिति यदुक्तं तद्व्याख्यानायाहमू. (१६) अप्पक्खरं महत्थं १ महक्खरऽप्पत्थ २ दोसुऽवि महत्थं ३। दोसुऽवि अप्पं च ४ तहाभणिअंसत्थं चउविगप्पं॥ [भा.११] वृ. अत्र चतुर्भङ्गिका-अल्पान्यक्षराणि यस्मिन् तदल्पाक्षरं, स्तोकाक्षरमित्यर्थः, ‘महत्थं' इति महानों यस्मिनमहार्थंप्रभूतार्थमित्यर्थः तत्रैकंशास्त्रमल्पाक्षरंभवतिमहार्थंचप्रथमोभङ्गः१,अथान्यतकिंभूतंभवति?. 'महक्खरमप्पत्थं. महाक्षरं. प्रभृताक्षरमिति हृदयं, अल्पार्थं स्वल्पार्थमितिहृदयं, द्वितीयोभङ्गः२. तथाऽन्यत किंभूतं भवति? - 'दोसुऽवि महत्थं द्वयोरपीति अक्षरार्थयोः श्रुतत्वा-दक्षरार्थोभयंपरिगृह्यते. एतदक्तंभवतिप्रभूताक्षरं प्रभूतार्थं च तृतीया भङ्गः ३. तथाऽन्यत् किंभूतं भवति ? इत्याह-दोसुवि अप्पं च तहा' द्वयोरप्यल्पमक्षरार्थयोः, एतदुक्तं भवति-अल्पाक्षरं अल्पार्थं चेति ४ । 'तथे तितेनागमोक्तप्रकारेण भणितं' उक्तं शास्त्रं चतुर्विकल्प' चतुर्विधमित्यर्थः। अधुना चतुर्णामपि भङ्गकानामुदाहरणदर्शनार्थमिदंगाथासूत्रमाह ___ मू. (१७) सामायारी ओहे नायज्झयणा य दिट्ठिवाओ य। लोइअकप्पासाई अणुक्कमा कारगा चउरो॥ [भा. १२] वृ.ओघसामाचारीप्रथमभङ्गकेउदाहरणंभवति, पूर्वापरनिपातादेवमुपन्यासःकृतः १,ज्ञाता-ध्ययनानि षष्ठाङ्गे प्रथमश्रुतस्कन्धे तेषुकथानकान्युच्यन्ते ततः प्रभूताक्षरत्वमल्पार्थत्वं चेति द्वितीयभङ्गके ज्ञाताध्ययनान्युदाहरणं, चशब्दादन्यच्च यदस्यां कोटौ व्यवस्थितं २, दृष्टिवादश्च तृतीयभङ्गक उदाहरणं, यतोऽसौ प्रभूताक्षरःप्रभूतार्थच, चशब्दात्तदेकदेशोऽपि३.चतुर्थभङ्गोदाहरणप्रतिपादनार्थमाह- 'लोइयकप्पासादी' इति लौकिकंचतुर्थभङ्गे उदाहरणं, किंभूतम?-कार्पासादि,आदि-शब्दाच्छिवचन्द्रादिग्रहः, अनुक्कम'त्तिअनुक्रमादिति अनुक्रमेणैव-परिपादया, तृतीयार्थे पञ्चमी, 'कारकाणि' कुर्वन्तीतिकारकाणि-उदाहरणान्युच्यन्ते, चत्वारीति यथासंख्येनैवेति। अनुग्रहार्थं सुविहितानाम्' इति यदुक्तं तद्व्याख्यानायो-दाहरणगाथामू. (१८) बालाईणनुकंपा संखडिकरणंमि होअगारीणं। ओमे य बीयभत्तं रन्ना दिन्नं जनवयस्स॥ भा. १३] वृ. एव'मित्युपन्यासाद्यथेतिगम्यते.ततोऽयमोभवति-यथाह्यगारिणामनुकम्पाभवतिबालादीनामुपरिसंखडिकरणे, एवंस्थविर:साधूनामनुकम्पार्थमुपदिष्टौघनियुक्तिरितिसंबन्धः।अधुनाऽक्षरगमनिकाबालाः शिशवोऽभिधीयन्ते, ते आदिर्येषाम, आदिशब्दात्कर्मकरादिपरिग्रहः तेषां बालादीनामुपर्यनुकम्पा दयेत्यर्थः, संखडिकरणे' संखड्यन्तेप्राणिनायस्यांसासंखडिः,अनेकसत्त्वव्यापत्तिहेतुरित्यर्थः कृतिःकरणं संखड्याःकरणंसंखडिकरणंतस्मिनसंखडिकरणेयथाऽनुकम्पाभवति, केषाम? इत्याह-'अगारिणां'अगारं विद्यते येषां तेऽगारिणस्तेषामगारिणा. तथाहि-यभोजनं प्रहरत्रयोद्देशे भवति तस्मिन् यदि बालादीनां प्रथमालिकानदीयतेततोऽ-तिबभुक्षाक्रान्तानांकेषाश्चिन्मूर्छागमनंभवतिकेचित्पुनःकर्मादिकतुनशक्नवन्तिततोऽनुकम्पार्थप्रथमालिकाद्यसौगृहपतिःप्रयच्छति.अस्यैवदर्शनार्थदृष्टान्तान्तरमाह-'ओम' इत्यादि. अवमं-दुर्भिक्षं तस्मिन्नवमे बीजानि-शाल्यादीनि भक्तम्-अन्नं बीजानि च भक्तं च बीजभक्तमेकवद्भावः 'राजा' नरपतिना दत्तं, कस्य? तदाह-जनपदस्य॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 436