Book Title: Agam Suttani Satikam Part 21 Vyavahara Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 4
________________ पीठिका - [भा. . ] नमो नमो निम्मलदसणस्स पञ्चम गणधर श्रीसुधर्मास्वामिने नमः - ३६/१ व्यवहार-छेदसूत्रं-१ -- (सटीक) तृतीयं-छेदसूत्रं [भद्रबाहु स्वामिरचितं मूलम् + [स्वोपयज्ञ नियुक्ति युक्तं] संघदास गणिविरचितंभाष्यं +मलयगिरि आचार्यविरचिताटीका) व्यवहारसूत्र-पीठिका) ।।१।। प्रणमत नेमिजिनेश्वर-मखिलप्रत्यूहतिमिररविबिंबम्। दर्शनपथमवतीर्णं, शशीवदष्टेः प्रसत्तिकरम् ।। ||२।। नत्वा गुरुपदकमलं, व्यवहारमहं विचित्रनिपुणार्थम् । विवृणोमि यथाशक्ति,प्रबोधहेतोडमतीनाम् ।। विषमपदविवरणेन, व्यवहर्त्तव्योव्यध्यायि साधूनाम् । येनायं व्यवहारः,श्रीचूर्णिकृते नमस्तस्मै ।। ।।४।। भाष्यं क्वचेदं विषमार्थगर्भ, क्व चाहमेषोऽल्पमतिप्रकर्षः । .. तथापि सम्यग्गुरुपर्युपास्ति-प्रसादतो जातद्धप्रतिज्ञः ।। वृ- उक्तंकल्पाध्ययनम्, इदानीं व्यवहाराध्ययनमुच्यते, तस्य चायमभिसंबंधः, कल्पाध्यायने आभवत् प्रायश्चित्तमुक्तं, न तु दान प्रायश्चित्त दानं, व्यवहारे तु दानप्रायश्चितमालोचनाविधिश्चाभिधास्यते.तदनेन संबंधेनायातस्याऽस्यव्यवहाराध्ययनस्यव्याख्या प्रस्तूयते । अस्यचमहापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति । तथाहि यथा नगरमकृतद्वारमनगरं, कृतैकद्वारमपि च दुरधिगमं, कृतचतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगममेवं व्यवहाराध्ययनपुरमप्यर्थाधिगमोपायशून्यम. शक्याधिगममेकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्दारानुगतं तु सुखाधिगममिति फलयान् द्वारोपन्यासः, अनुयोगद्वाराणि नाम अध्ययनार्थप्रवेशमुखानि, तानि च अमूनि-उपक्रमो, निक्षेपोऽनुगमो, नयाइतिः तत्रउपक्रमणमुपक्रमः,शास्त्रस्यसमीपीकरणं, निक्षेपणंनिक्षेपोनामादिन्यासः अनुगमनमनुगमः सूत्रस्यानुरुपमर्थाख्यानं, नया नैगमादयो वस्तुनः पर्यायाणाम् यथासंभवमधिगमकारिणः, तत्रोपक्रमो द्विविधः शास्त्रीयइतरश्च, इतरः षट्प्रकारः नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्,तत्रनामस्थापनेसुप्रतीते; द्रव्योपक्रमोद्विविधः,आगमतोनोआगमतच,आगमत उपक्रमशब्दार्थस्यज्ञाता तत्रचानुपयुक्तोऽनुपयोगोद्रव्यमितिवचनात् । नोआगमतस्त्रिविधो,ज्ञशरीर भव्यशरीर तद्व्यतिरिक्तभेदात् । तत्र यद् उपक्रम शब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धिशिलातलादिगंत, तद्भूतभावित्वात् ज्ञशरीरद्रव्योपक्रमः, यस्तुबालकोनेदानी-मुपक्रमशब्दार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 482