Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ बृहत्कल्प-छेदसूत्रम् -१[भा.१७] जमिदं नाणं इंदो, न व्यतिरिच्चति ततो उ तन्नाणी। __ तम्हा खलु तब्भावं, वयंति जो जत्थ उवउत्तो॥ वृ- यद् इदं इन्द्र इति ज्ञानं तस्मान 'ज्ञानी' इन्द्रज्ञानी व्यतिरिच्यते । तस्माद् यो 'यत्र' इन्द्रादौ उपयुक्तः तस्य 'तद्भावं' इन्द्रादिभावं तत्त्वविदस्सूरयो वदन्ति । ज्ञान-ज्ञानिनोरभेद एव कथं सिद्धः? इति चेत्, उच्यते-विपक्षेऽनेकदोषप्रसङ्गात् । तमेवाह[भा.१८] चेयण्णस्स उ जीवा, जीवस्स उ चेयणाओ अन्नत्ते। दवियं अलक्खणं खलु, हविज न य बंधमोक्खा उ॥ वृ-चैतन्यस्यजीवात्जीवात्चेतनायाअन्यत्वे 'द्रव्यं जीवद्रव्यं अलक्षणं' “चेतनालक्षणो जीवः" इतिलक्षणरहितं भवेत् । चेतनायाघटादिवज्जीवादप्येकान्तव्यतिरिक्तत्वात् “लक्षणाभावे चलक्ष्यस्याऽप्यभावः" इति खरशृङ्गवदत्यन्तासन्जीवः । यश्चाऽत्यन्तासन्सनबध्यते, बन्धस्य वस्तुधर्मत्वात्; नाऽपि मुच्यते, बन्धाभावादिति बन्ध-मोक्षावपि न स्याताम् । अथ मन्येथाः 'अचेतनोऽपि स बध्यते मुच्यतेच' इति तदप्यऽयुक्तम्, अचेतनानामप्येवं धर्मास्तिकायादीनां बन्ध-मोक्षप्रसक्तेः । तस्मात्साधूक्तम् “इन्द्रशब्दार्थं जानन् तदुपयुक्तो भावेन्द्रः" इति । सम्प्रति नामेन्द्र-स्थापनेन्द्रयोः प्रकारान्तरेण प्रतिविशेषमभिधित्सुराह[भा.१९] जह ठवणिंदो थुव्वइ, अनुग्गहत्थीहिं तह न नामिंदो । एमेव दव्वभावे, पूयाथुतिलद्धिनाणत्तं ।। वृ- यथा स्थापनेन्द्रो अनुग्रह एवार्थोऽनुग्रहार्थ स येषामस्ति तेऽनुग्रहार्थिनस्तैः वाग्भि स्तूयतेपुष्पादिभिरर्यतेच,न तथानामेन्द्रोमाणवकः ।ततोमहान् नामेन्द्र-स्थापनेन्द्रयोःप्रतिविशेषः। “एवमेव' अनेनैवप्रकारेण द्रव्येन्द्रे भावेन्द्रेच पूजा-स्तुति-लब्धिभिर्नानात्वमवसातव्यम् । तद्यथाद्रव्येन्द्रोऽपि नामेन्द्र इवाऽनुग्रहार्थिभि न स्तूयते नाऽपि पूज्यते, यस्तु भावेन्द्रः स स्थापनेन्द्र इव स्तूयते पूज्यतेच; ततो द्रव्येन्द्र-भावेन्द्रयोरपिमहान्प्रतिविशेषः । अन्यच्च द्रव्येन्द्र इन्द्रलब्धिहीनः, यस्तुभावेन्द्रः स तल्लब्धिसम्पन्नः । तथाहि-ससामानिकत्रायस्त्रशकादिपरिवृतो विशिष्टद्युतिमान् स्फीतं राज्यमनुभवति।उपयोगचिन्तायामपि भावेन्द्र उफयोगलब्धिमान्, द्रव्येन्द्र उपयोगलब्ध्या परित्यक्तः॥तदेवमुक्तःसर्वत्रचतुष्कनिक्षेपप्रदर्शनायेन्द्रशब्दस्य निक्षेपः। सम्प्रति प्रस्तुतमुच्यतेतत्र परः प्रश्नयति 'किमर्थं मङ्गलग्रहणम् ?' इति, आह[भा.२०] विग्धोवसमो सद्धा, आयर उवयोग निजराऽधिगमो। भत्ती पभावणा विय, निवनिहिविजाइ आहरणा ॥ वृ-मङ्गले प्रकृते सति रोगादिविघ्नोपशमो भवति। तदुपशमे च प्रतिबन्धकाभावान्महता प्रबन्धेनाऽऽचार्येणाऽनुयोगः प्रारभ्यते । तथाऽनुयोगप्रारम्भे शिष्स्य शास्त्रग्रहणे महती श्रद्धोपजायते । श्रद्धावतश्च शास्त्रवधारणे महानाऽऽदरः । कृतादरस्य शास्त्रविषयेऽनवरतमुपयोगः । यदा यदा चोपयोगस्तदा तदा सम्यग्ज्ञानत्वान्महती ज्ञानावरणीयस्य कर्मणो निर्जरा । ज्ञानावरणकर्मनिर्जरणाच्च स्फुटः स्फुटतरः शास्त्रस्याधिगमः । अधिगतशास्त्रस्य च गुरौ शास्त्र प्रवचने च निकृत्रिमा भक्तिरुल्लसति । ततः प्रभावना, तां दृष्टवाऽन्येषामपि तथा श्रद्धांदीनां करणात् । यदिपुनर्न क्रियते मङ्गलं तत एषां विघ्नोपशमादिभावानामप्रसिद्धि।अत्र ‘उदाहरणानि' For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 532