Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ बृहत्कल्प-छेदसूत्रम् -१ पद्मोत्पलप्रतिच्छन्नाः” इत्यादिलक्षणोपेताः कुम्भादयः, आदिशब्दात् स्थालादिपरिग्रहः, तद् द्रव्यमङ्गलं भवति । यथा लोकेऽष्टौ मङ्गलानि ॥ गंतियं अनच्चंतियं च दव्वे उ मंगलं होइ । [भा. १०/१] वृ. तत्पुनरनन्तरोक्तं द्रव्यमङ्गलमनैकान्तिकमनात्यन्तिकंच भवति । तथाहि न पूर्णकलश एकान्तेन सर्वेषां मङ्गलम्, येन चौरस्य कर्षकस्य च शकुनतया रिक्तं घटं प्रशंसन्ति शकुनविदः, गृहप्रवेशे पुनः पूर्णम् । उक्तं च ८ चोरस्स करिसगस्स य, रित्तं कुड्यं जनो पसंसेइ । गेहपवेसे मन्त्रइ, पुत्रो कुंभो पसत्थो उ ॥ तत एवमनैकान्तिकम् । नाप्यात्यन्तिकम्, यथा कोऽपि शोभनैर्द्रव्यमङ्गलैर्विनिर्गतः, तेन चाग्रे किञ्चिदशोभनं दृष्टम्, येन तानि सर्वाण्यपि प्राक्तनानि प्रतिहतानि, तत एवमनात्यन्तिकमिति । उक्तं द्रव्यमङ्गलम्, अधुना भावमङ्गलमाह (भा. १० / २] तव्विवरीयं भावे, तं पि य नंदी भगवती उ । वृ- 'तद्विपरीतम्' ऐकान्तिकमात्यन्तिकं च 'भावे' भावविषयं मङ्गलम् । तथाहि-न तद् भावमङ्गलं कस्यचिद्भवति कस्यचिन्न भवति, किन्तु सर्वस्याविशेषेण भवतीत्यैकान्तिकम्; न च केनाप्यन्येन प्रतिहन्यत इत्यात्यन्तिकम्। 'तच्च' भावमङ्गलं भगवान् नन्दिर्वक्ष्यमाणोऽवगन्तव्यः । गाथायां स्त्रत्वं प्राकृतत्वात् ।। आह यथा नामादीनि चत्वारि मङ्गले समवतारितानि तथा किमन्येष्वप्यवतार्यन्ते ? किं वा न ? इति उच्यते-अवतार्यन्त, सर्वस्यापि चतुः प्रत्यवतारान्तर्गतत्वात् ॥ एतदेवाह [ भा. ११] जह इंदो त्ति य एत्थं, तु मग्गणा होति नाममादीणं । सव्वानुवायि सन्ना, ठवणादिपया उ पत्तेयं ॥ वृ- यथा इन्द्र इति उक्ते 'अत्र' इन्द्रे नामादीनां चतणां मार्गणा भवति । तथाहि-किमनेन नामेन्द्र उक्तः ? उत स्थापनेन्द्रः ? उत स्थापनेन्द्रः ? आहोस्विद् द्रव्येन्द्रः ? उताहो भावेन्द्रः ? इति । तथा सर्वत्रापि द्रष्टव्या । उक्तं च जत्थ य जं जाणिज्जा, निक्खेवं निक्खिवे निरवसेसं । वि य न जाणिज्जा, चउक्कयं निक्खवे तत्था ॥ वृ-तत्र 'संज्ञा' नाम सर्वेषु- नाम-स्थापना- द्रव्य-भावेषु अनुपाति- अनुवर्तनशीलम् । तथाहिनामेन्द्रऽपि स्थापनेन्द्रोऽपि द्रव्येन्द्रोऽपि भावेन्द्रोऽपि च इन्द्र इत्यभधानेनाविशेषत उच्यते । स्थापनादीनि तु पदानि 'प्रत्येकं' स्वस्वव्यवस्थितानि न परस्परमनुगमनशीलानि ततो न नामप्रवृत्तिमात्रदर्शनतो नामेन्द्रप्रतिपत्तयः किन्तु भिन्नलक्षणवशात् । अतस्तल्लक्षणमाहअत्ताभिप्पायकया, सन्ना चेयणमचेयणे वा वि । [भा. १२] ठवणादीनिरविक्खा, केवल सन्ना उ नामिंदो ॥ वृ- चेतनेऽचेतने वा द्रव्ये या आत्माभिप्रायेण स्वेच्छया इन्द्रप्रभृति संज्ञा कृता, साऽपि स्थापनादिसापेक्षा स्यादत आह-स्थापनादीनां - स्थापना - द्रव्य भावानां निरपेक्षा, किमुक्तं भवति ? -यत्र स्थापनादीनामेकमपि नास्ति किन्तु 'केवला' एका संज्ञा तदर्थनिरपेक्षा स नामेन्द्रः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 532