Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 18
________________ १५ वक्षस्कारः - १ स्वमतप्राधान्यवादितया परस्परं विवदमानेषु नामनयादिषु प्रथमतः स्वोत्प्रेक्षितयुक्त्युपदर्शनपुरस्सरं नामनयः प्राह–तथा च प्रयोगः - वस्तुस्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, स्वधर्मवत्, इह यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मो यथा घटस्य स्वधर्मरूपा घटादयः, यद्यस्य धर्मो न भवति न तत्तस्य प्रत्यहेतुः, यथा घटस्य धर्मा पटस्य, सम्पद्यते च घटाभिधानाद् घटे सम्प्रत्ययः, तस्मात्तत्तस्य धर्म इति, सिद्धश्च हेतुर्घटशब्दात् पटादिव्यावृत्या घटप्रतिपत्तेः प्रतीतत्वात् किञ्च - लक्ष्यलक्षणसंव्यवहाराणामात्मलाभोनामायत्त एव, तत्र लक्ष्यं जीवत्वादि लक्षणमुपयोगः संव्यवहारः प्रेषणाध्येषणादिरिति, तथा यदि नाम्नो वस्तुधर्मत्वं नाम्युपगम्यते तदा संशयादयोऽपि भवेयुः, यदुक्तम्"संसयविवज्जओ वाऽणज्झवसाओऽहवा जहिच्छाए । sas पडिवत्ती न वत्युधम्मो जया नामं ॥" 119 11 अत्र व्याख्यालेशः- केनचिद् घटशब्दे समुच्चारिते श्रोतुः किमयमाहेत्येवं संशयः अथवा पटप्रतिपत्तिलक्षणो विपर्ययः अथवा न जाने किमप्यनेनोक्तमिति वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः यदिवा यच्छयाऽर्थे प्रतिपत्ति- कदाचिद् घटस्य कदाचित्पटस्येत्यादि, ततोऽवश्यं वस्तुधर्मो नामाभ्युपगन्तव्यमित्यादि, तदेवं नामनयेन स्वमृते व्यवस्थापित स्थापनानयः प्राहः नाम्नो वस्तुसंज्ञामात्ररूपस्य वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद्वस्तुनोऽतिदूरत्वं स्थापनायास्तु वस्तुसंस्थानरूपायास्तादात्म्यसम्बन्धेनावस्थितत्वाद्भावप्रत्यासन्नत्वं किञ्च देशान्तरकालान्तरविप्रकृष्टमपि वस्तु स्थाप्यप्रतिमादौ सन्निदधाति अन्यथा मन्त्रागमे सन्निधापन्यादिमुद्राप्ररूपणानां नैष्फल्यप्रसङगः, यथा च स्थापनेन्द्रः शचीकुलिशादिसाचिव्येन निर्विलम्बं तदेकतानानां भावधियं जनयति न तथा नामेन्द्रः तस्यानाकारत्वात्, तस्मात् स्थापनैव प्रधानाऽस्तु, स्थापनानयेनैवमुक्ते द्रव्यनयः स्वाशयमाविर्भावयति को हि नाम स्थापनानयस्याकारग्रहो ? यस्मादनादिमदुप्रेक्षितपर्यायश्रृङ्खलाधारस्य मृदादिद्रव्यस्य पूर्वपर्यायमात्रतिरोभावेऽग्रेतनपर्यायमात्राविर्भावलक्षणपरिणामव्यतिरेकेण नान्यत् किमप्याकारदर्शनं, किन्तूत्पादव्ययरहितं उत्फणविफणकुण्डलिताकारसमन्वितसर्प्यद्रव्यवन्निर्विकारं द्रव्यमेवास्ति, न ह्यत्र किमप्यपूर्वमुत्पद्यमानं वा विनश्यति (वा) येन विकारः स्यात् । ननु कथमुत्पादादिरहितं द्रव्यं ?, यावता सर्पादिके द्रव्ये उत्फणविफणादयः पर्याया उत्पद्यमाना निवर्त्तमानाश्च साक्षादेव दृश्यन्ते इति चेत्, न, आविर्भावतिरोभावमात्रपरिणामस्य कारणं द्रव्यं, यथा सर्प उत्कणविफणावस्थयोरिति, न ह्यत्रापूर्वं किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाविर्भवति, नाप्याविर्भूतं सद् विनश्यति, किन्तु छन्नरूपतया तिरोभावमात्रमेवासादयति, एतञ्च सत्याविर्भावतिरोभावमात्र एव कार्योपचारात्कारण मस्यौपचारिकमेव, तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति, ननु यद्येकस्वभावं निर्विकारं द्रव्यं तर्ह्यनन्तकालभाविनामनन्तानामप्याविर्भावतिरोभावानामेकलयैव कारणं किमिति न भवतीति ?, उच्यते, अचिन्त्यस्वभाव हि द्रव्यं, तेनैकस्वभावस्यापि तस्य क्रमेणैवाविर्भावतिरोभावमात्रप्रवृत्ति सर्पादिद्रव्येष्वेकस्वभावेष्वप्युत्फणविफणादिपर्यायाणां क्रमवृत्तेः प्रत्यक्षसिद्धत्वादिति, ननु यद्येवमुत्कणविफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य किमिति न भवति ?, उच्यते, वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, न हि नटो वेषान्तराणि कुर्वाणोऽ प्यनित्यो भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 564