Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 20
________________ वक्षस्कारः-१ १७ तौ विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ ॥४॥ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे। इति तदेवं सर्वंवस्तुनामादिचतुष्टयात्मकमेव, तेनात्र नामस्थापनाद्रव्यभावार्हन्त-श्चत्वारोऽपि नमस्कार्या एवेत्यागतमिति । __अत्र कश्चिदग्राह्यनामधेयो भक्षितलशुनपिशुनभूतमुद्गिरति-भवतु नाम वाच्यवाचकभावसम्बन्धेन भावसन्निहितत्वान्नाम्नो नमस्कार्यत्वं, स्थापनायास्तुभावविप्रकृष्टत्वेन तत्कथमिति चेत्, उच्यते, तस्या अपि जिनबुद्धयुत्पादकत्वादिभिर्हेतुभिः सुतरां भावासनत्वान्नमस्कार्यत्वमुपपन्नमिति मा मुग्ध मुधाऽनन्ततीर्थकृदनुज्ञातस्थापनाऽपलापपापपङ्किलतां कलय, कलयसि न किं स्थापनाद्रोणाचार्यसम्यग्विनयोपनतांजगदतिशायिनीमर्जुनसन्तर्जनीं धनुर्वेदसिद्धिं, तथा चप्रतिक्रमणादौ वन्दनकप्रदानेरजोहरणादिकंगुरुचरणतया व्यपदिशसिस्थापनानिक्षेपंचापलपसि अहो वददव्याघातस्तव, अपिच-चित्रार्पितनिजजनकवदनमुपानद्भ्यां ग्रहरते नराय कुप्यसि चित्रन्यस्तकुम्भस्तनीं निध्यायन् हेप्यसि मिथ्यावादं कुर्वस्तथापि न तृप्यसि. किमपराद्धं तव पुरुषधुरन्धरस्थापनया ?, तथा वदामि सुहृद्भावेन-भावकारणतया द्रव्यमपि स्वीकुरु नमस्कार्यतया, अन्यथा पद्मनाभादीन् द्रव्यजिनान् नम स्कुर्वतः द्रव्यनृपंच भावी राजेतिबुद्धया उपचरतश्चतवार्द्धनारीश्वरवेषविडम्बना समापतिता, तेन त्यज टिट्टिभमानं भज श्रीजिनाज्ञा सबहुमानं, ततस्तवापि युक्तियुक्तं सर्वेषामर्हनिक्षेपाणां नमस्कार्यत्वमित्यलं प्रसङ्गेन, अथप्रकृतंप्रस्तुमः, उक्तः सूत्रस्पर्शिकनियुक्त्यनुगमः, तदेवंमङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनियुक्त्यनुगमनया उपदर्शिताः, एवं प्रतिसूत्रं स्वयमनुसरणीयं । अथ यस्यां नगर्यां यस्मिन्नुद्याने यथा भगवान् गौतमस्वामी भगवतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपोद्घातमुपदिदर्शयिषुरिदमाह-'तेणं' ति, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो-यदा भगवान् विहरति स्म तस्मिन्निति 'काले वर्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापिणमितिवाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीयाआर्षत्वात्, यदाहुः श्रीहेमसूरिपादाः, “आर्षे तृतीयापि दृश्यते-तेणंकालेणं तेणंसमएणं, तस्मिन् काले तस्मिन् समये इत्यर्थः । 'तेणं समएणं'ति समयोऽवसरवाची, तथा च लोके वक्तारो-नाद्याप्येतस्य समयो वर्तते, नास्त्यस्यावसर इत्यर्थः, तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतांजम्बूद्वीपवक्तव्यतामचकथत्तस्मिन् समये मिथिला नाम नगरीअभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमेता तदैवाभवत्, नतु विवक्षितप्रकरणकर्तुप्रकरणपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्यां वर्णकमाह _ 'रिद्धस्थिमियसमिद्धत्तिऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधूच्वृद्धा वितिवचनात्, स्तिमिता-स्वचक्रपरचक्रादिसमुत्थभयकल्लोलमालावर्जिता, समृद्धा-धनधान्यादिविभूति युक्ता, ततः पदत्रयस्य कर्मधारयः, 'वण्णओ'त्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिको| 13 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 564