________________
वक्षस्कारः-१
१७
तौ विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ ॥४॥ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः ।
सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे। इति तदेवं सर्वंवस्तुनामादिचतुष्टयात्मकमेव, तेनात्र नामस्थापनाद्रव्यभावार्हन्त-श्चत्वारोऽपि नमस्कार्या एवेत्यागतमिति । __अत्र कश्चिदग्राह्यनामधेयो भक्षितलशुनपिशुनभूतमुद्गिरति-भवतु नाम वाच्यवाचकभावसम्बन्धेन भावसन्निहितत्वान्नाम्नो नमस्कार्यत्वं, स्थापनायास्तुभावविप्रकृष्टत्वेन तत्कथमिति चेत्, उच्यते, तस्या अपि जिनबुद्धयुत्पादकत्वादिभिर्हेतुभिः सुतरां भावासनत्वान्नमस्कार्यत्वमुपपन्नमिति मा मुग्ध मुधाऽनन्ततीर्थकृदनुज्ञातस्थापनाऽपलापपापपङ्किलतां कलय, कलयसि न किं स्थापनाद्रोणाचार्यसम्यग्विनयोपनतांजगदतिशायिनीमर्जुनसन्तर्जनीं धनुर्वेदसिद्धिं, तथा चप्रतिक्रमणादौ वन्दनकप्रदानेरजोहरणादिकंगुरुचरणतया व्यपदिशसिस्थापनानिक्षेपंचापलपसि अहो वददव्याघातस्तव, अपिच-चित्रार्पितनिजजनकवदनमुपानद्भ्यां ग्रहरते नराय कुप्यसि चित्रन्यस्तकुम्भस्तनीं निध्यायन् हेप्यसि मिथ्यावादं कुर्वस्तथापि न तृप्यसि.
किमपराद्धं तव पुरुषधुरन्धरस्थापनया ?, तथा वदामि सुहृद्भावेन-भावकारणतया द्रव्यमपि स्वीकुरु नमस्कार्यतया, अन्यथा पद्मनाभादीन् द्रव्यजिनान् नम स्कुर्वतः द्रव्यनृपंच भावी राजेतिबुद्धया उपचरतश्चतवार्द्धनारीश्वरवेषविडम्बना समापतिता, तेन त्यज टिट्टिभमानं भज श्रीजिनाज्ञा सबहुमानं, ततस्तवापि युक्तियुक्तं सर्वेषामर्हनिक्षेपाणां नमस्कार्यत्वमित्यलं प्रसङ्गेन, अथप्रकृतंप्रस्तुमः, उक्तः सूत्रस्पर्शिकनियुक्त्यनुगमः, तदेवंमङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनियुक्त्यनुगमनया उपदर्शिताः, एवं प्रतिसूत्रं स्वयमनुसरणीयं ।
अथ यस्यां नगर्यां यस्मिन्नुद्याने यथा भगवान् गौतमस्वामी भगवतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपोद्घातमुपदिदर्शयिषुरिदमाह-'तेणं' ति, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो-यदा भगवान् विहरति स्म तस्मिन्निति 'काले वर्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापिणमितिवाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीयाआर्षत्वात्, यदाहुः श्रीहेमसूरिपादाः, “आर्षे तृतीयापि दृश्यते-तेणंकालेणं तेणंसमएणं, तस्मिन् काले तस्मिन् समये इत्यर्थः । 'तेणं समएणं'ति समयोऽवसरवाची, तथा च लोके वक्तारो-नाद्याप्येतस्य समयो वर्तते, नास्त्यस्यावसर इत्यर्थः, तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतांजम्बूद्वीपवक्तव्यतामचकथत्तस्मिन् समये मिथिला नाम नगरीअभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमेता तदैवाभवत्, नतु विवक्षितप्रकरणकर्तुप्रकरणपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्यां वर्णकमाह
_ 'रिद्धस्थिमियसमिद्धत्तिऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधूच्वृद्धा वितिवचनात्, स्तिमिता-स्वचक्रपरचक्रादिसमुत्थभयकल्लोलमालावर्जिता, समृद्धा-धनधान्यादिविभूति युक्ता, ततः पदत्रयस्य कर्मधारयः, 'वण्णओ'त्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिको| 13 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org