________________
१८
पाङ्गप्रसिद्धः समस्तोऽपि वर्णको द्रष्टव्यः अत्रालिखनं तु ग्रन्थगौरवभयादिति ।
तस्याः णमिति पूर्ववत्, मिथिलाया नगर्य्या बहिस्तात् उत्तरपौरस्त्ये - उत्तरापूर्वान्तरालरूपे दिग्भाग ईशानकोण इत्यर्थः, अत्र एकारो मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा - 'कयरे आगच्छइ दित्तरुवे' इत्यादौ, 'अत्र' अस्मिन्नुत्तरपौरस्त्ये दिग्विभागे माणिभद्रं नाम चैत्यमभवत्, चितेः - लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च संज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचाराच्चैत्यमुच्यते तच्चेह व्यन्तरायतनं द्रष्टव्यं न तु भगवतामहतामायतनं, तस्य च चिरातीतमित्यादिर्वर्णकस्तत्परिक्षेपिवनखण्डवर्णकसहित औपपातिकतोऽवसेयः, तस्यां मिथिलायां नगर्यां जितशत्रुर्नाम राजा, तस्य सकलस्त्रीगुणधारिणी धारिणी नामा देवी, कृताभिषेका पट्टराज्ञी इत्यर्थः, उभयत्राप्यभवदिति शेषः, 'वण्णओ' त्ति अत्र राज्ञो 'महयाहिमवन्तमहन्ते'त्यादिको राज्ञ्याश्च 'सुकुमालपाणिपायेत्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः । अथात्र यज्जातं तदाह- 'तेणं कालेणं० ति पूर्ववत्, स्वामीति समर्थविशेषणं विशेष्यमाक्षिपति तेनात्र श्रीमन्महावीरः समवसृत इत्यर्थः, आत्यन्तिकं स्वामित्वं तस्यैव त्रिभुवनविभोरिति, अत्र च यथा निष्प्रतिमप्रातिहार्यादिसमृद्धया समन्वितो यथा च श्रमणादिपरिवारेण परिवृतः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं ।
पर्षन्निर्गता- मिथिलाया नगर्या वास्तव्यो जनः समस्तोऽपि भगवन्तमागतं श्रुत्वा विवन्दिषया स्वस्मात् स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तए णं मिहिलाए नयरीए सिंघाडगे' त्यादिकं 'जाव पंजलिउडा पज्जुवासंती' ति पर्यन्तमौपपातिकगतमवगन्तव्यं ।
119 11
तस्याः पर्षदः पुरतो निशेषजनभाषापरिणामिन्याऽर्द्धभागधभाषया धर्म कथितः, स चैवं - "अत्थि लोए अत्थि अलोए अत्थि जीवा अत्थि अजीवा' इत्यादि तथा"जह जीवा बज्झंती मुञ्चंती जहय संकिलिस्संति । जह दुक्खाणं अंतं करेंति केई अपडिबद्धा ॥ अट्टदुहट्टियचित्ता जह जीवा दुक्खसागरमुविंति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति ॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो ।
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/१
॥२॥
7
॥३॥
जह य परिहीणकमा सिद्धा सिद्धालयमुविंति ।।
तहा आइक्खति "त्ति पर्षत् प्रतिगतास्वस्थानं गता, प्रतिगमनसूत्रमपि 'तए णं सा महइम० परिसा' इत्यादि 'तामेव दिसं पडिगया' इति पर्यन्तं तत एवोपाङ्गादवगन्तव्यमिति ।
अथ पर्वतप्रतिगमनानन्तरं यजातं तदाह
मू. (२) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदमूई नामं अनगारे गौअमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणे जाव एवं वयासी
बृ. 'तेणं कालेणं'ति तस्मिन् काले-भगवतो धर्मदेशनाव्युपरमकाले तस्मिन् समयेपर्षव्यतिगमनावसरे श्राम्यतेि-तपस्यति नानाविधमिति श्रमणस्तस्य भगः - समग्रैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् तस्य 'शूर वीर विक्रान्तौ' वीरयति कषायान् ग्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तस्य ज्येष्ठः - प्रथमः अन्तेवासी - शिष्यः, अनेन पदद्वयेन तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org