________________
१६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/१
तस्य स्वयमविकारित्वादिति द्रव्यमेव प्रधानमिति,
एवं द्रव्यनयेन स्वमते व्यवस्थापिते भावनयः प्राह - भावेभ्यः पर्यायापरनामभ्योऽर्थान्तरभूतं किमपि द्रव्यं नास्ति, किन्तु भाव एव यदिदं दृश्यते त्रिभुवने वस्तुनिकुरम्बमिति, यतः प्रतिक्षणं भवनमेवानुभूयते, किमुक्तं भवति ? - भावस्यैकस्यापत्ति परस्य तु विपत्ति, न च भावापत्तिविपत्ती हेत्वपेक्षे, यश्च हेतुः स एव द्रव्यमिति वाच्यं, न हि भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते किन्तु निरपेक्षमेवोत्पद्यते, अपेक्षा हि विद्यमानस्यैव भवति, न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चापेक्षायांखरविषाणस्यापि तथाभावप्रसङ्गात्, यदिचोत्पत्तिक्षणात् प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपेक्षया ?, तस्य स्वत एव विद्यमानत्वात्, अथोत्पन्नः सन् घटादि पश्चात् मृत्पिण्डादिकमपेक्षते, हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनं, यदि हि स्वत एव कथमपि निष्पन्नो घटादि किं तस्य पश्चात् मृत्पिण्डाद्यपेक्षते, हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनं, यदि हि स्वत एव कथमपि निष्पन्नो घटादि किं तस्य पश्चात् मृत्पिण्डाद्यपेक्षयेति तथा विनाशोऽपि निर्हेतुक एव, मुद्गरोपनिपातादिसव्यपेक्षा एव घटादयो विनाशमाविशन्तो दृश्यन्ते न हि निर्हेतुका इति चेत्, नैवं, विनाशहेतोरयोगात् ।
- तथाहि - मुद्गरादिना विनाशकाले किं घटादिरेव क्रियते आहोश्वित्कपालादय उत तुच्छरूपोऽभाव इति त्रयी गति ?, तत्र न तावद् घटादिस्तस्य स्वहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः, नापि कपालादयस्तत्करणे घटादेस्तदवस्थत्वप्रसङ्गात्, न ह्यन्यकरणे अन्यस्य निवृत्तिर्युक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात्, नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्य तस्य कर्तुमशक्यत्वात्, करणे वा घटादेस्तदवस्थताप्रसङ्गाद्, अन्यकरणेऽन्यनिवृत्यसम्भवादिति विनाशे मुद्गरादिकं सहकारिकारणमेव न तु तज्जनकं घटादिस्तु क्षणिकत्वेन निर्हेतुकः स्वयमेव निवर्त्तते, तस्माज्जन्मविनाशयोर्न किञ्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाच्च न किञ्चित्कस्यचित्कारणं, तथा च सति न किञ्चिद्द्रव्यं, किन्तु पूर्वापरीभूताः परापरक्षणरूपाः पर्याया एव सन्तीति । अत्र नामादिनयाधिकारे बहु वक्तव्यं तत्तु विशेषावश्यकादवसेयमिति, एवमसम्पूर्णार्थग्राहित्वाद् गजगात्रभिन्नरदेशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवद्विवदमाने नयवृन्दे मिथ्याष्टित्वमुद्भाव्य तत्तिरस्करणाय सर्वनयसमूहात्मकस्याद्वादसुधारसास्वादरसिकतामनभवतामयमुद्गारः, तथाहि - लोके यत्किमपि घटपटादिकं वस्त्वस्ति तत् सर्वमन्योऽन्यसापेक्षनामादिच-तुष्टयात्मकं, न पुनः केवलनाममयं वा केवलाकाररूपं वा केवलद्रव्यताश्लिष्टंवा केवलभावात्मकं वा, यतः एकस्मिन्नपि शचीपत्यादौ इन्द्र इति नाम तदाकारस्तु स्थापना उत्तरावस्थाकारणत्वं तु द्रव्यत्वं दिव्यरूपसम्पत्तिकुलिशधारणपरमैश्वर्यादिसम्पन्नत्वं तु भाव इति नामादिचतुष्टयमपि प्रतीयते, एतदर्थसंवादका उत्तराध्ययनबृहदृत्युक्ताः श्लोका अपि यथा“संविन्निष्ठैव सर्वापि, विषयाणां व्यवस्थिति । संवेदनञ्च नामादिविकलं नानुभूयते ॥
119 11
तथाहि - घटोऽयमिति नामैतत् पृथुबुध्नादि चाकृति ।
॥२॥
॥३॥
Jain Education International
मृद्रव्यं भवनं भावो, घटे दृष्टं चतुष्टयम् ॥ तत्रापि नाम नाकारमाकारो नाम नो विना ।
For Private & Personal Use Only
www.jainelibrary.org