________________
१५
वक्षस्कारः - १
स्वमतप्राधान्यवादितया परस्परं विवदमानेषु नामनयादिषु प्रथमतः स्वोत्प्रेक्षितयुक्त्युपदर्शनपुरस्सरं नामनयः प्राह–तथा च प्रयोगः - वस्तुस्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, स्वधर्मवत्, इह यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मो यथा घटस्य स्वधर्मरूपा घटादयः, यद्यस्य धर्मो न भवति न तत्तस्य प्रत्यहेतुः, यथा घटस्य धर्मा पटस्य, सम्पद्यते च घटाभिधानाद् घटे सम्प्रत्ययः, तस्मात्तत्तस्य धर्म इति, सिद्धश्च हेतुर्घटशब्दात् पटादिव्यावृत्या घटप्रतिपत्तेः प्रतीतत्वात् किञ्च - लक्ष्यलक्षणसंव्यवहाराणामात्मलाभोनामायत्त एव, तत्र लक्ष्यं जीवत्वादि लक्षणमुपयोगः संव्यवहारः प्रेषणाध्येषणादिरिति, तथा यदि नाम्नो वस्तुधर्मत्वं नाम्युपगम्यते तदा संशयादयोऽपि भवेयुः, यदुक्तम्"संसयविवज्जओ वाऽणज्झवसाओऽहवा जहिच्छाए । sas पडिवत्ती न वत्युधम्मो जया नामं ॥"
119 11
अत्र व्याख्यालेशः- केनचिद् घटशब्दे समुच्चारिते श्रोतुः किमयमाहेत्येवं संशयः अथवा पटप्रतिपत्तिलक्षणो विपर्ययः अथवा न जाने किमप्यनेनोक्तमिति वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः यदिवा यच्छयाऽर्थे प्रतिपत्ति- कदाचिद् घटस्य कदाचित्पटस्येत्यादि, ततोऽवश्यं वस्तुधर्मो नामाभ्युपगन्तव्यमित्यादि, तदेवं नामनयेन स्वमृते व्यवस्थापित स्थापनानयः प्राहः नाम्नो वस्तुसंज्ञामात्ररूपस्य वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद्वस्तुनोऽतिदूरत्वं स्थापनायास्तु वस्तुसंस्थानरूपायास्तादात्म्यसम्बन्धेनावस्थितत्वाद्भावप्रत्यासन्नत्वं किञ्च देशान्तरकालान्तरविप्रकृष्टमपि वस्तु स्थाप्यप्रतिमादौ सन्निदधाति अन्यथा मन्त्रागमे सन्निधापन्यादिमुद्राप्ररूपणानां नैष्फल्यप्रसङगः, यथा च स्थापनेन्द्रः शचीकुलिशादिसाचिव्येन निर्विलम्बं तदेकतानानां भावधियं जनयति न तथा नामेन्द्रः तस्यानाकारत्वात्, तस्मात् स्थापनैव प्रधानाऽस्तु, स्थापनानयेनैवमुक्ते द्रव्यनयः स्वाशयमाविर्भावयति को हि नाम स्थापनानयस्याकारग्रहो ? यस्मादनादिमदुप्रेक्षितपर्यायश्रृङ्खलाधारस्य मृदादिद्रव्यस्य पूर्वपर्यायमात्रतिरोभावेऽग्रेतनपर्यायमात्राविर्भावलक्षणपरिणामव्यतिरेकेण नान्यत् किमप्याकारदर्शनं, किन्तूत्पादव्ययरहितं उत्फणविफणकुण्डलिताकारसमन्वितसर्प्यद्रव्यवन्निर्विकारं द्रव्यमेवास्ति, न ह्यत्र किमप्यपूर्वमुत्पद्यमानं वा विनश्यति (वा) येन विकारः स्यात् । ननु कथमुत्पादादिरहितं द्रव्यं ?,
यावता सर्पादिके द्रव्ये उत्फणविफणादयः पर्याया उत्पद्यमाना निवर्त्तमानाश्च साक्षादेव दृश्यन्ते इति चेत्, न, आविर्भावतिरोभावमात्रपरिणामस्य कारणं द्रव्यं, यथा सर्प उत्कणविफणावस्थयोरिति, न ह्यत्रापूर्वं किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाविर्भवति, नाप्याविर्भूतं सद् विनश्यति, किन्तु छन्नरूपतया तिरोभावमात्रमेवासादयति, एतञ्च सत्याविर्भावतिरोभावमात्र एव कार्योपचारात्कारण मस्यौपचारिकमेव, तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति, ननु यद्येकस्वभावं निर्विकारं द्रव्यं तर्ह्यनन्तकालभाविनामनन्तानामप्याविर्भावतिरोभावानामेकलयैव कारणं किमिति न भवतीति ?, उच्यते, अचिन्त्यस्वभाव हि द्रव्यं, तेनैकस्वभावस्यापि तस्य क्रमेणैवाविर्भावतिरोभावमात्रप्रवृत्ति सर्पादिद्रव्येष्वेकस्वभावेष्वप्युत्फणविफणादिपर्यायाणां क्रमवृत्तेः प्रत्यक्षसिद्धत्वादिति, ननु यद्येवमुत्कणविफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य किमिति न भवति ?, उच्यते, वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, न हि नटो वेषान्तराणि कुर्वाणोऽ प्यनित्यो भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org