Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ वक्षस्कारः-१ यत्तु तदन्यद्वस्तु भावनिक्षेपे निक्षिप्यते तत्तद्गत गुणारोपादौपचारिकमिति न दोषः, विवक्षाया विचित्रत्वादिति, द्विधा गता लवणोदस्य आपोऽस्मादिति अन्वर्थवशाद् द्वीपत्वं, पृथिव्यादिपरिणामरूपत्वाद्रव्यद्वीपत्वं, तत्रचद्रव्यद्वीपेनात्राधिकारः, तत्रापिअसन्दीनेन,अथवेत्थं नामादिभेदाद् द्वीपश्चतुर्द्धा, नामद्वीपो द्वीप इति नाम नामनामवतोरभेदोपचारात्, स्थाप-नाद्वीपो द्वीपस्यस्थालवलयाद्याकारः, द्रव्यद्वीपो द्वीपारम्भकद्रव्याणिपृथिव्यादीनि, तदात्मकत्वाद्वीपानां, यदाह-“जंबुद्दीवेणंभंते! किंपुढविपरिणामे आउप०जीवप० पोग्गलप० गो०! पुढविपरिणामेवि जाव पुग्गलपरिणामेवि" भावद्वीपस्तु स्थालाद्याकृतिमत् स्थालात्मकं सर्वतः समुद्रजलवलयितं क्षेत्रखण्डं, एतदनुसारेण तु चतुर्भिरपि द्वीपैरत्राधिकार इत्यलं विस्तरेण । प्रज्ञप्तिरपि नामादिभिश्चतुर्द्धा, तत्र प्रज्ञप्तिरितिनामयथाप्रज्ञप्तिर्विद्यादेवी, स्थापनाप्रज्ञप्ति प्रज्ञप्तिशब्दार्थज्ञसाध्वादिः, (आकृति) द्रव्यप्रज्ञप्तिर्द्विधाः आगमतोनोआगमतश्च, तत्रागम-तस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तद्रव्यप्रज्ञप्तिभेदात् त्रिधा, तत्राद्यौ भेदौ सुबोधौ, उभयव्यतिरिक्ता द्रव्यप्रज्ञप्तिर्द्विधा-लौकिकी लोकात्तराच, एकैकाऽपि त्रिविधा-सचित्ताचित्तमिश्रद्रव्यविषयभेदात्, तत्राद्या-यथा प्रयियासोनृपस्यमन्दुरासमानीतहयज्ञापनं द्वितीया तस्यैव रथज्ञापनं तृतीया तस्यैव पर्याणादिपरिस्कृतहयज्ञापनं रथस्य वाऽश्वादियुक्तस्य ज्ञापनं, लोकोत्तरा तु सचित्तविषया यथा प्रव्राजनाचार्यस्य नवप्रव्रजितं प्रति शाल्यादिसचित्तज्ञापनसैव द्वितीया शस्त्रपरिणतशाल्यादिज्ञापनसैवतृतीयादुष्पकशाल्यादिज्ञापनं चेति, अथ भावप्रज्ञप्तिरपि द्विधा-आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु भावप्रज्ञप्तिर्द्विधा- प्रशस्ताप्रशस्तभावप्रज्ञप्तिभेदात्, तत्राप्रशस्तभावप्रज्ञप्तिर्यथा ब्राह्मण्याः स्वसुताःप्रतिजामातृभावनिवेदनं, प्रशस्तभावप्रज्ञप्तिरियमेवअर्थतोऽर्हतांगणधरान् सूत्रतो गणधराणांस्वशिष्यान्प्रति, उक्तावोधनामनिष्पन्नौ निक्षेपौ, सम्प्रतिसूत्रालापकनिष्पन्नः, स चावसरप्राप्तोऽपि न निक्षिप्यते, तस्य सूत्रपदाविनाभावित्वात्, सूत्रं च सूत्रानुगमे समयप्राप्तं भवति, ततोलाघवार्थं सूत्रानुगमसमयएव निक्षेप्स्यते, निक्षेपसाम्यमात्रत्वाच्चोपदर्शनं, अथानुगमो व्याख्यानरूपः, सचद्विधा-निर्युक्त्यनुगमः सूत्रानुगमञ्च, तत्र आधस्त्रधाःनिक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्र- स्पर्शिकनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्तयनुगमो जम्ब्वादिशब्दानां निक्षेपप्रतिपादनादनुगत एव, उपोदघातनिर्युक्त्यनुगमस्तु ‘उद्देसे निद्देसे अ' इत्यादिगाथाद्वयादवसेयः, सूत्रस्पर्शिक-निर्युक्त्यनुगमस्तुसंहितादौषड्विधेव्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थान-लक्षण्याख्यानभेदचतुष्टयस्वरूपः, सच सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सतिभवतीत्यतः सूत्रानुगमएवोच्यते, तत्र चाल्पग्रन्थमहार्थं द्वात्रिंशद्दोषविरहितमष्टगणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारणीयं, तच्चैदम् वक्षस्कारः-१) मू. (१) नमो अरिहंताणं । ते णं कालेणं ते णं समए णं मिहिला नामं नयरी होत्था, रिद्धत्थमियसमिद्धा वण्णओ, तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ. णंमाणिभद्दे नामंचेइए होत्था, वण्णओ। जियसत्तु राया, घारिणी देवी, वण्णओ । तेणं कालेणं तेणं समएणं सामी समोसढो, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 564