________________
वक्षस्कारः-१
यत्तु तदन्यद्वस्तु भावनिक्षेपे निक्षिप्यते तत्तद्गत गुणारोपादौपचारिकमिति न दोषः, विवक्षाया विचित्रत्वादिति, द्विधा गता लवणोदस्य आपोऽस्मादिति अन्वर्थवशाद् द्वीपत्वं, पृथिव्यादिपरिणामरूपत्वाद्रव्यद्वीपत्वं, तत्रचद्रव्यद्वीपेनात्राधिकारः, तत्रापिअसन्दीनेन,अथवेत्थं नामादिभेदाद् द्वीपश्चतुर्द्धा, नामद्वीपो द्वीप इति नाम नामनामवतोरभेदोपचारात्, स्थाप-नाद्वीपो द्वीपस्यस्थालवलयाद्याकारः, द्रव्यद्वीपो द्वीपारम्भकद्रव्याणिपृथिव्यादीनि, तदात्मकत्वाद्वीपानां, यदाह-“जंबुद्दीवेणंभंते! किंपुढविपरिणामे आउप०जीवप० पोग्गलप० गो०! पुढविपरिणामेवि जाव पुग्गलपरिणामेवि" भावद्वीपस्तु स्थालाद्याकृतिमत् स्थालात्मकं सर्वतः समुद्रजलवलयितं क्षेत्रखण्डं, एतदनुसारेण तु चतुर्भिरपि द्वीपैरत्राधिकार इत्यलं विस्तरेण ।
प्रज्ञप्तिरपि नामादिभिश्चतुर्द्धा, तत्र प्रज्ञप्तिरितिनामयथाप्रज्ञप्तिर्विद्यादेवी, स्थापनाप्रज्ञप्ति प्रज्ञप्तिशब्दार्थज्ञसाध्वादिः, (आकृति) द्रव्यप्रज्ञप्तिर्द्विधाः आगमतोनोआगमतश्च, तत्रागम-तस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तद्रव्यप्रज्ञप्तिभेदात् त्रिधा, तत्राद्यौ भेदौ सुबोधौ, उभयव्यतिरिक्ता द्रव्यप्रज्ञप्तिर्द्विधा-लौकिकी लोकात्तराच, एकैकाऽपि त्रिविधा-सचित्ताचित्तमिश्रद्रव्यविषयभेदात्, तत्राद्या-यथा प्रयियासोनृपस्यमन्दुरासमानीतहयज्ञापनं द्वितीया तस्यैव रथज्ञापनं तृतीया तस्यैव पर्याणादिपरिस्कृतहयज्ञापनं रथस्य वाऽश्वादियुक्तस्य ज्ञापनं, लोकोत्तरा तु सचित्तविषया यथा प्रव्राजनाचार्यस्य नवप्रव्रजितं प्रति शाल्यादिसचित्तज्ञापनसैव द्वितीया शस्त्रपरिणतशाल्यादिज्ञापनसैवतृतीयादुष्पकशाल्यादिज्ञापनं चेति, अथ भावप्रज्ञप्तिरपि द्विधा-आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु भावप्रज्ञप्तिर्द्विधा- प्रशस्ताप्रशस्तभावप्रज्ञप्तिभेदात्, तत्राप्रशस्तभावप्रज्ञप्तिर्यथा ब्राह्मण्याः स्वसुताःप्रतिजामातृभावनिवेदनं, प्रशस्तभावप्रज्ञप्तिरियमेवअर्थतोऽर्हतांगणधरान् सूत्रतो गणधराणांस्वशिष्यान्प्रति, उक्तावोधनामनिष्पन्नौ निक्षेपौ, सम्प्रतिसूत्रालापकनिष्पन्नः, स चावसरप्राप्तोऽपि न निक्षिप्यते, तस्य सूत्रपदाविनाभावित्वात्, सूत्रं च सूत्रानुगमे समयप्राप्तं भवति, ततोलाघवार्थं सूत्रानुगमसमयएव निक्षेप्स्यते, निक्षेपसाम्यमात्रत्वाच्चोपदर्शनं, अथानुगमो व्याख्यानरूपः, सचद्विधा-निर्युक्त्यनुगमः सूत्रानुगमञ्च, तत्र आधस्त्रधाःनिक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्र- स्पर्शिकनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्तयनुगमो जम्ब्वादिशब्दानां निक्षेपप्रतिपादनादनुगत एव, उपोदघातनिर्युक्त्यनुगमस्तु ‘उद्देसे निद्देसे अ' इत्यादिगाथाद्वयादवसेयः, सूत्रस्पर्शिक-निर्युक्त्यनुगमस्तुसंहितादौषड्विधेव्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थान-लक्षण्याख्यानभेदचतुष्टयस्वरूपः, सच सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सतिभवतीत्यतः सूत्रानुगमएवोच्यते, तत्र चाल्पग्रन्थमहार्थं द्वात्रिंशद्दोषविरहितमष्टगणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारणीयं, तच्चैदम्
वक्षस्कारः-१) मू. (१) नमो अरिहंताणं । ते णं कालेणं ते णं समए णं मिहिला नामं नयरी होत्था, रिद्धत्थमियसमिद्धा वण्णओ, तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ. णंमाणिभद्दे नामंचेइए होत्था, वण्णओ। जियसत्तु राया, घारिणी देवी, वण्णओ । तेणं कालेणं तेणं समएणं सामी समोसढो, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org