Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ वक्षस्कारः - १ रानुयानि श्री मालस्येव ममानौचितीमञ्चति, तथापि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणैव महता प्रयत्नेन प्रायस्तत्तव्प्राचीनजीवाभिगमादिवृत्तिषु दृष्टानामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्वाख्यानरूपभेवेदं व्याख्यानं विधीयत इति नानौचितीलेशोऽपीति सर्वं सुस्थं इति शास्त्रप्रस्तावना ॥ 119 11 तस्य चानुयोगस्य फलादिद्वारप्ररूपणतः प्रवृत्तिर्भवति, यत उक्तम्"तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । तब्भेयनिरुत्तिक्कमपओयणाई च वच्चाई ।।" ति तत्र प्रेक्षावतां प्रवृत्तये तस्य - अनुयोगस्य फलमवश्यं वाच्यं, अन्यथाऽस्य निष्फलत्वमाकलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामर्द्दन इव नात्र प्रवर्त्तेरन्निति, तच्च द्विधा - कर्तुः श्रोतुश्च, एकैकमपि द्विधां - अनन्तरं च तत्र कर्तुरनन्तरं द्वीपसमुद्रादिसंस्थानपरिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया यथासंभवं संस्मरणात् स्वात्मनः सुखेनैव संस्थानविचयाभिधानधर्मध्यानसमवाप्तिर्मन्दमेघसामनुग्रहश्च श्रोतुः पुनर्जम्बूद्वीपवर्त्तिपदार्थपरिज्ञानं, परम्परं तु द्वयोरपि मुक्त्यवाप्ति, यदाह 119 11 “सर्वज्ञोक्तोपदेशेन, यः सत्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥” -तथा- “सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥” तथा योगः - सम्बन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तः प्रवर्त्तन्त इति, स द्विधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्र आद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायोऽर्थावगमादि चोपेयं, स च फलाभिधानादेवाभिहितः, अन्यश्च केवल श्रद्धानुसारिणः प्रति, स चैवम् - अर्थतो भगवता वर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरुक्ता सूत्रतो गणधरैर्द्वादशाङ्गयामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशयश्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता, अमुमेव च सम्बन्धमनुविचिन्त्य सूत्रकृदुपोद्घातमाधास्यति अथवा 'शास्तुः प्रामाण्ये शास्त्रप्रामाण्य' मिति आद्यसम्बन्धस्यैव प्रामाण्यग्रहार्तमपरसम्बन्धनिरूपणं, न हि विदितपरमतत्वाः सत्वानुग्रहैकप्रवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भाषन्ते, भगवत्ताभङ्गादिति, अथवा योगः - अवसरः, ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसर इति ?, उच्यते, उपाङ्गस्याङ्गार्थानुवादकतयाऽङ्गस्य सामीप्येन वर्त्तमानाद्य तदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिका इमा गाथाः 119 11 ॥२॥ ॥२॥ ॥३॥ ७ “तिवरिसपरियायस्स उ आयारपकप्पनाममज्झयणं । चउवरिसरस य सम्मं सूअगडं नाम अंगंति ॥ दसकप्पव्यवहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवा ओवि अ अंगे ते अट्ठवासस्स ।। दसवासस्स विवाहो एगारसवासगस्स य इमे ऊ । खुड्डियविमाणभाई अज्झयणा पंच नायव्वा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 564