Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ पदं-,उद्देशकः-, द्वारं नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः १५ प्रज्ञापनाउपाङ्गसूत्रम्-१ (सटीक) चतुर्थम् उपाङ्गम्-१ (श्यामाचार्य संकलितं मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः) ॥१॥ जयति नमदमरमुकुटप्रतिबिम्बच्छद्मविहितबहुरूपः । उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ।। ॥२॥ जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवन्नूनं सत्त्वा जन्मजराव्याधिपरिहीणाः ।। ॥३॥ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशानिरुपममश्नुवते ब्रह्म तनुभाजः।। ॥४॥ जडमतिरपि गुरुचरणोपास्तिसमुद्भूतविपुलमतिविभवः । समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥ - अथ प्रज्ञापनेति कः शब्दार्थः ?, उच्यते, प्रकर्षण-निःशेषकुतीर्थितीर्थकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्ते-शिष्यबुद्धावारोप्यन्तेजीवाजीवादयः पदाअिनयेति प्रज्ञापना, इयं च समवायाख्यस्य चतुर्थाङ्गस्योपाङ्गं, तदुक्तार्थप्रतिपादनात्, उक्तप्रतिपादनमनर्थकमिति चेत्, न, उक्तानामपि विस्तरेणाभिधानस्य मन्दमतिविनेयजनानमुग्रहार्थतया सार्थकत्वात् । इदञ्चोपाङ्गमपि प्रायः सकलजीवाजीवादिपदार्थशासनात्शास्त्रं, शास्त्रस्य चादौ प्रेक्षावतां प्रवृत्त्यर्थमवश्यं प्रयोजनादित्रितयं मङ्गलं च वक्तव्यम्, उक्तं च॥१॥ "प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम्। मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥” इति तत्र प्रयोजनं द्विधा-परमपरंच, पुनरेकैकं द्विधा-कर्तृगतं श्रोतृगतंच, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, तथाचोक्तम् “एषा द्वादशाङ्गी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती' त्यादि, पर्यायास्तिकनयमतपर्यालोचनायांचानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायांतुसूत्रार्थोभयरूपत्वादागमस्याथर्थापेक्षया नित्यत्वात् सूत्रापेक्षयाचानित्यत्वात् कथञ्चित् कर्तृसिद्धिः, तत्र सूत्रकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः परम्परंत्वपवर्गप्राप्तिः, उक्तंच॥१॥ “सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 324