Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/१३ सम्भावनार्थम्, 'परमाणुपुद्गला इति' परमाश्च तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः तेच ते पुद्गलाश्च परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः । 'तेसमासओ'इत्यादि, ते स्कन्धाध्यो यथासम्भवं समासतः' सङ्केपेण पञ्चविधाःप्रज्ञप्ताः, तद्यथा-'वर्णपरिणताः' वर्णतः परिणताः, वर्णपरिणामभाजइत्यर्थः, एवंगन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः, परिणता इत्यतीतकालनिर्देशो वर्तमानातगतकालोपलक्षणं, वर्तमानानागतत्वमन्तरेणातीतत्वस्यासम्भवात्, तथाहि-यो वर्तमानत्वमतिक्रान्तः सोऽतीतोहवति, वर्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान्, उक्तं च॥१॥ "भवति स नामातीतो यः प्राप्तो नाम वर्तमानत्वम् । एष्यंश्च नामस भवति यः प्राप्स्यति वर्तमानत्वम् ।।" ततो वर्णपरिणता इति वर्णरूपतया परिणताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम्, एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम्। मू. (१३-वर्तते) जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालवण्णपरिणया नीलवण्णप० लोहियवण्णप० हालिद्दवण्णप० सुकिल्लवण्णपरिणया, जे गंधपरिणता ते दुविहा पं० तं०- सुब्भिगंधपरिणता य दुब्भिगंधपरिणता य, जे रसपरिणता ते पंचविहा पं० तं०-तित्तपरिणता कडुयरसपरिणता कसायरसपरिणया अंबिलरसपरिणता महुरसपरिणया, जे फासपरिणता ते अट्ठविहापं० २०-कक्खडफासपरिणयामउयफासपरिणयागुरुयफासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया निद्धफासपरिणया लुक्खफासपरिणया, . जे सण्ठाणपरिणया ते पंचविहा पं० २०-परिमंडलसंठाणपरिणया वट्टसंठाणपरि० तंससंठाणप० चउरंससं०प० आयतसंठाणपरिणया। वृ. ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-कृष्णवर्णपरिणताः कज्जलादिवत्, नीलवर्णपरिणता नील्यादिवत्, लोहितवर्णपरिणताहिङ्गुलकादिवत्, हारिद्रवर्णपरिणताहरिद्रादिवत्, शुक्लवर्णपरिणताः शङ्खादिवत्। येगन्धपरिणतास्तेद्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्चदुरभिगन्धपरिणताश्च, चशब्दौ परिणामभवनंप्रति विशेषाभावख्यापनार्थी, तथाहि-यथाकथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणामभजन्तेतथा कथञ्चिदवस्थिताएवसामग्रीवशतोदुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् ।ये रसपरिणतास्ते पञ्चविधाःप्रज्ञप्ताः, तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत्, कषायरसपरिणता अपक्ककपित्थादिवत्, अम्लरसपरिणता अम्लवेतसादिवत्, मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा-कर्कशस्पर्शपरिणताः पाषाणादिवत्, मृदुस्पर्शपरिणता हंसरुतादिवत्, गुरुकस्पर्शपरिणताः वज्रादिवत, लघुकस्पर्श० अर्कतूला- दिवत्, शीतस्पर्शपरिणता मृणालादिवत्, उष्णस्पर्श० वह्ययादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत्, रूक्षस्पर्शपरिणता भस्मादिवत् । येसंस्थानपरिणतास्तेपञ्चविधाः प्रज्ञप्ताः, तद्यथा-परिमण्डलसंस्थानपरिणतावलयवत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 324