________________
१४
प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/१३ सम्भावनार्थम्, 'परमाणुपुद्गला इति' परमाश्च तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः तेच ते पुद्गलाश्च परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः ।
'तेसमासओ'इत्यादि, ते स्कन्धाध्यो यथासम्भवं समासतः' सङ्केपेण पञ्चविधाःप्रज्ञप्ताः, तद्यथा-'वर्णपरिणताः' वर्णतः परिणताः, वर्णपरिणामभाजइत्यर्थः, एवंगन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः, परिणता इत्यतीतकालनिर्देशो वर्तमानातगतकालोपलक्षणं, वर्तमानानागतत्वमन्तरेणातीतत्वस्यासम्भवात्, तथाहि-यो वर्तमानत्वमतिक्रान्तः सोऽतीतोहवति, वर्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान्, उक्तं च॥१॥ "भवति स नामातीतो यः प्राप्तो नाम वर्तमानत्वम् ।
एष्यंश्च नामस भवति यः प्राप्स्यति वर्तमानत्वम् ।।" ततो वर्णपरिणता इति वर्णरूपतया परिणताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम्, एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम्।
मू. (१३-वर्तते) जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालवण्णपरिणया नीलवण्णप० लोहियवण्णप० हालिद्दवण्णप० सुकिल्लवण्णपरिणया, जे गंधपरिणता ते दुविहा पं० तं०- सुब्भिगंधपरिणता य दुब्भिगंधपरिणता य, जे रसपरिणता ते पंचविहा पं० तं०-तित्तपरिणता कडुयरसपरिणता कसायरसपरिणया अंबिलरसपरिणता महुरसपरिणया,
जे फासपरिणता ते अट्ठविहापं० २०-कक्खडफासपरिणयामउयफासपरिणयागुरुयफासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया निद्धफासपरिणया लुक्खफासपरिणया,
. जे सण्ठाणपरिणया ते पंचविहा पं० २०-परिमंडलसंठाणपरिणया वट्टसंठाणपरि० तंससंठाणप० चउरंससं०प० आयतसंठाणपरिणया।
वृ. ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-कृष्णवर्णपरिणताः कज्जलादिवत्, नीलवर्णपरिणता नील्यादिवत्, लोहितवर्णपरिणताहिङ्गुलकादिवत्, हारिद्रवर्णपरिणताहरिद्रादिवत्, शुक्लवर्णपरिणताः शङ्खादिवत्।
येगन्धपरिणतास्तेद्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्चदुरभिगन्धपरिणताश्च, चशब्दौ परिणामभवनंप्रति विशेषाभावख्यापनार्थी, तथाहि-यथाकथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणामभजन्तेतथा कथञ्चिदवस्थिताएवसामग्रीवशतोदुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् ।ये रसपरिणतास्ते पञ्चविधाःप्रज्ञप्ताः, तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत्, कषायरसपरिणता अपक्ककपित्थादिवत्, अम्लरसपरिणता अम्लवेतसादिवत्, मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा-कर्कशस्पर्शपरिणताः पाषाणादिवत्, मृदुस्पर्शपरिणता हंसरुतादिवत्, गुरुकस्पर्शपरिणताः वज्रादिवत, लघुकस्पर्श० अर्कतूला- दिवत्, शीतस्पर्शपरिणता मृणालादिवत्, उष्णस्पर्श० वह्ययादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत्, रूक्षस्पर्शपरिणता भस्मादिवत् ।
येसंस्थानपरिणतास्तेपञ्चविधाः प्रज्ञप्ताः, तद्यथा-परिमण्डलसंस्थानपरिणतावलयवत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org