________________
पदं-१, उद्देशकः-, द्वारंकाशास्तिकायः, 'आकाशस्तिकायस्य देश'; इत्यादि पूर्ववत्, नवरं प्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात्। 'अद्धेति' कालस्याख्या, अद्धाचासौ समयश्चाद्धासमयः, अथवाऽद्धायाः समयो निर्विभागो भागः, अयं च एक एव वर्तमानः परमार्थः सन्, नातीता नानागताः समयाः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वेनासत्त्वात्, ततः कायत्वाभाव इति देशप्रदेशकल्पनाविरहः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति ततः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इति द्रष्टव्यम्।
तथा अमीषामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदौ धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा च सम्प्रति प्रथमत उत्क्षिप्ता वर्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानम्, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपिचानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य,
ततः पुनरजीवसाधादद्धासमयस्य, अथवेहधर्माधर्मास्तिकायौ विभून भवतः, तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तौ लोकालोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षाद्दर्शनात्, ततो यावति क्षेत्रेऽवगाढौ तावत्प्रमाणो लोकः शेषस्त्वलोक इति सिद्धम्, उक्तंच॥१॥ “धर्माधर्मविभुत्वात् सर्वत्र च दीवपुद्गलविचारात् ।
नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ॥ ॥२॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् ।
एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥" ततः एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकावावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकाकस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, स्वमागमानुसारेणान्यदपि युक्तयनुपाति वक्तव्यम्, इत्यलं प्रसङ्गेन ।
प्रकृतोपसंहारमाह-'सेतंअरूविअजीवपन्नणा' सैषाअरूप्यजीवप्रज्ञापना ॥पुनराह विनेयः
मू. (१३) से किं तं रूविअजीवपन्नवणा?, रूविअजीवपन्नवणा चउव्विहा पन्नत्ता, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपोगला, ते समासओ पंचविहा पन्नत्ता, तंजहा-वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया।
वृ. अथ का सा रूप्यजीवप्रज्ञापना?, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा-'स्कन्धाः स्कन्दन्तिशुकन्तिधीयन्तेच-पुष्यन्तेपुद्गलानां विचटनेनचटनेनचेति स्कन्धाः, 'पृषोदरादय' इति रूपनिष्पत्तिः,अत्रबहुवदनंपुद्गलस्कन्धानामानन्त्यक्यापनार्थम्, नचानन्त्यमनुपपन्नम्, आगमेऽभधानात्, तथा च वक्ष्यति
'दव्वओणंपुग्गलत्थिकाए'इत्यादि, ‘स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिताव्यादिप्रदेशात्मका दिभागाः, अत्रापिबहुवचनमनन्तानन्तप्रादेशिकेषुतथाविधेषु स्कन्धेषुदेशानन्तत्वसम्भावनारअथम्, स्कन्धानांस्कन्धत्वपरिणामपरिणतानांबुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनंप्रदेशानन्तत्व
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org