________________
१५
पदं-१, उद्देशकः-, द्वारवृत्तसंस्थानपरिणताः कुलालचक्रादिवत्, त्र्यनसंस्थानपरिणताःशृङ्गाटकादिवत्, चतुरनसंस्थानपरिणताः कुम्भिकादिवत्, आयतसंस्थानपरिणता दण्दादिवत्, एतानि च परिमण्डलादीनि संस्थानानिधनप्रतरभेदेन द्विविधानि भवन्ति, पुनः परिमण्डलमपहायशेषाणिओजःप्रदेशजनितानि युग्मप्रदेशजनितानीति द्विधा, तत्रोत्कृष्टं परिमण्डलादिसर्वमनन्ताणुनिष्पन्नमसङ्खयेयप्रदेशावगाढं चेति प्रतीतमेव, जघन्यं तु प्रतिनियतसङ्ख्येपरमाण्वात्मकम्, अतो नानिर्दिष्टं ज्ञातुं शक्यते इति विनेयजनानुग्रहाय तदुपदर्श्यते-तत्रौजःप्रदेशप्रतरवृत्तं पञ्चपरमाणुनिष्पन्नं पञ्चाकाशप्रदेशावगाढं च, तद्यथा-एकः परमाणुर्मध्ये स्थाप्यते, चत्वारः क्रमेणपूर्वादिषुचतसृषु दिक्षु, युग्मप्रदेशप्रतरवृत्तं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगढं च, तत्र निरन्तरं चत्वारः परमाणवश्चतुष्वाकाशप्रदेशेषु रुचकाकारेणव्यवस्थाप्यन्ते, ततस्तत्परिक्षेपेण शेषाअष्टौ ओजःप्रदेशंधनवृत्तंसप्तप्रदेशंसप्तप्रदेशावगाढं च, तच्चैवं-तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्टादधस्ताच्च एकैकोऽणुरवस्थाप्यते, तत एवं सप्तप्रदेशंभवति युग्मप्रदेशंधनवृत्तं द्वात्रिंशप्रदेशं द्वात्रिंशप्रदेशावगाढं च, तच्चैवं-पूर्वोक्तद्वादशप्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये चत्वारश्चत्वारः परमाणव इति
__ ओजः प्रदेशं प्रतरत्र्यनं त्रिप्रदेशं त्रिप्रदेशावगाढंच, तच्चैवंपूर्वतिर्यगणुद्वयं न्यस्यते, तत आद्यस्याध एकोऽणुः, स्थापना-युग्मप्रदेशं प्रतरत्र्यनं षट्परमाणुनिष्पन्नं षट्प्रदेशावगाढं च, तत्र तिर्यग निरन्तरं त्रयः परमाणवःस्थाप्यन्ते, ततआद्यस्याध उपर्यधोभावेनाणुद्वयं द्वितीयस्याध एकोऽणुः, स्थापनाओजः-प्रदेशंधनत्र्यनं पञ्चत्रिंशत्परमाणुनिष्पन्नं पञ्चत्रिंशप्रदेशावगाढंच, तच्चैवं-तिर्यग निरन्तराः पञ्च परमाणवःस्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेवचत्वारस्त्रयो द्वावेकश्चेति पञ्चदशात्मकः प्रतरोजातः, स्थापना-अस्यैवचप्रतरस्योपरि सर्वपङ्तिश्वन्त्यान्त्यपरित्यागेन दश १०, तथैव तदुपर्युपरि षट् त्रय एकश्चेति क्रमेणाणवः स्थाप्यन्ते, एते मीलिताः पञ्चत्रिंशद्भवन्ति युग्मनदेशं धनत्र्यनं चतुष्परमाणवात्मकं चतुष्प्रदेशावगाढंच प्रतरत्र्यनस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, ततो मीलिताश्चत्वारो भवन्ति ॥ ___ओजःप्रदेशं प्रतरचतुरनं नवपरमाण्वात्मकं नवप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रिप्रदेशास्तिनः पङ्कतयः स्थाप्यन्ते, स्थापनायुग्मप्रदेशंप्रतरचतुरनंचतुष्परमाण्वात्मकंचतुष्प्रदेशावगाढंच, तत्र तिर्यग द्विप्रदेशे द्वेपङ्कित स्थाप्येते, ओजःप्रदेशंधनचतुरनंसप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशावगाढं च, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते, ततः सप्तविंशतिप्रदेशात्मकमोजः प्रदेशंधनचतुरस्रं भवति अस्यैव युग्मप्रदेशं धनचतुरसमष्टपरमाण्वात्मकमष्टप्रदेशावगाढंच, तच्चैवं-चतुष्प्रदेशात्मकस्यपूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते ३।। ओजःप्रदेशं श्रेण्यायतंत्रिपरमाणु त्रिप्रदेशावगाढंच, तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढंच, तथैवाणुद्वयं स्थाप्यते ओजः-प्रदेशं प्रतरायतं पञ्चदशपरमाण्वात्मकं पञ्चदशप्रदेशावगाढं च, तत्र पञ्चप्रदेशात्मिकास्तिनः पङ्तयस्तिर्यक् स्थाप्यन्ते, युग्मप्रदेशं प्रतरायतं षट्परमाण्वात्मकं षट्प्रदेशावगाढंच, तत्रत्रिप्रदेशं पक्तिद्वयंस्थाप्यते, स्थापना-ओजःप्रदेशंधनायतंपञ्चचत्वारिंशत् परमाण्वात्मकंतावप्रदेशावगाढंच, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्चदशप्रदेशात्मकस्याधउपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org