Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ पदं-१, उद्देशक:-, द्वारं आह- 'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वभावाः - जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाः, तथाहि--अस्यां प्रज्ञापनाया षट्त्रिंशत्पदानि तत्र - प्रज्ञापना बहुवक्तव्यविशेषचरमपरिणामसञ्जञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्गमनः कर्मयोगः (स) आश्रवः' इति वचनात्, कर्मप्रकृतिपदे बन्धस्य समुद्घातपदे केवलिसमुद्घातप्ररूपणायां संवरनिर्जराभोक्षाणां त्रयाणां, शेषेषु तु स्थानादिषु पदेषु क्वचित्कस्यचिदिति, अथवा 'सर्वभावाना' मिति द्रव्यक्षेत्रकालभावानाम्, एतद्वयतिरेकेणान्यस्य प्रज्ञापनीयस्याभावात्, तत्र प्रज्ञापनापदे जीवाजीवद्रव्याणां प्रज्ञापना स्थानपदे जीवाधारस्य क्षेत्रस्य स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य शेषपदेषु सङ्ख्याज्ञानादिपर्यायव्युकान्त्युच्छ्वासादीनां भावानामिति । अस्याश्च गाथाया 'अज्झयणमिणं चित्त' मित्यनया गाथया सहाभिसम्बन्धः ॥ केवलं येनेयं सत्त्वानुग्रहाय श्रुतसागारादुद्धृ ता असावप्यासन्नतरोपकारित्वादस्मद्विधानां नमस्काराई इति तन्नमस्कारविषयमिदमपान्तराल एवान्यकर्तृकं गाथाद्वयम्वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । मू. (३) दुद्धरधरेण मुनिना पुव्वसुयसमिद्धबुद्धीण ॥ (प्र०) वृ.वाचकाः- पूर्वविदः वाचकाश्च ते वराश्च वाचकवराः - वाचकप्रधानाः तेषां वंशः - प्रवाहो वांचकवरवंशः तस्मिन्, सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात्, प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्त्तन्ते, तथा चाह पाणिनिः स्वप्राकृतव्याकरणे - 'व्यत्ययोऽप्यासा' मिति, त्रयोविंशतितमेन तथा च सुधर्मस्वामिन आरभ्य भगवानार्यश्यास्त्रयोविंशतिता एव, किंभूतेन ? - 'धीरपुरुषेण' धीः - बुद्धिस्तया राजते इति धीरः धीरश्चासौ पुरुषश्च धीरपुरुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि पञ्च महाव्रतानि धारयतीति दुर्द्धरधरस्तेन, तथा मन्यते जगतस्त्रिकालावयामिति मुनिस्तेन, विशिष्टसंवित्समन्वितेनेत्यर्थः, पुनः कथंभूतेनेत्याह- 'पूर्वश्रुतसमृद्धबुद्धिना' पूर्वाणि च तत् श्रुतं च पूर्वश्रुतं तेन समृद्धा - वृद्धिमुपगता बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन, आह- यो वाचकवरवंशान्तर्गतः स पूर्वश्रुतसम्बद्धबुद्धिरेव भवति, ततः किमनेन विशेषणेन ?, सत्यमेतत्, किन्तु पूर्वविदोऽपि षट्स्थानपतिता भवन्ति, तथा च चतुर्दशपूर्वविदामपि मतिमधिकृत्य षट्स्थानकं वक्ष्यति, तत आधिक्यप्रदर्शनार्थमिदं विशेषणमित्यदोषः, 'समिद्धबुद्धीणे' त्यत्र णाशब्दस्य हॠस्वत्वं द्धिशब्दस्य च दीर्घताऽऽर्षत्वात्, सुयसागरा विणेऊण जेण सुयरयणमुत्तमं दिन्नं । मू. (४) सीसगणस्स भगवओ तस्स नमो अज्जसामस्स || (प्र०) वृ. तथा श्रुतमनर्वाक्पारत्वात् सुभाषितरत्नयुक्तत्वाच्च सागर इव श्रुतसागरः 'व्याघ्रादिभिर्गेणैस्तद्गुणानुक्ताविति' समासः, तस्मात् 'विणेऊणन्ति' देशीवचनमेतत्, साम्प्रतकालीनपुरुषयोग्यं वीनयित्वेत्यर्थः, येनेदं प्रज्ञापनारूपं श्रुतरत्नमुत्तमं - प्रधानं, प्राधान्यं च न शेषश्रुतरत्नापेक्षया, किन्तु स्वरूपतः, दत्तं शिष्यगणाय तस्मै, भगवते - ज्ञानैश्वर्यधर्मादिमते आरात्सर्वहयधर्मेभ्यो यातः-प्राप्तो गुणैरित्यार्यः स चासौ श्यमाश्च आर्यश्यामः तस्मै, सूत्रे च षष्ठी चतुथ्यर्थे द्रष्टव्या, छठ्ठिविभत्तीए मन्नइ चउत्थी' इति वचनात् ॥ अधुनोक्तसम्बन्धैवेयं गाथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 324