Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-१, उद्देशक:-, द्वारं
त्रिंशत्तमं 'पासणय'त्ति दर्शनता ३० एकत्रिंशत्तमं संज्ञा ३१ द्वात्रिंशत्तमं संयमः ३२ त्रयस्त्रिंशत्तममवधिः ३३ चतुस्त्रिंशत्तमं प्रविचारणा ३४ पञ्चत्रिंशत्तमं वेदना ३५ षट्त्रिंशत्तमं समुद्घातः ३६ || तदेवमुपन्यस्तानि पदानि ।।
११
साम्प्रतं यथाक्रमं पदगतानि सूत्राणि वक्तव्यानि, तत्र प्रथमपदगतमिदमादिसूत्रम्(अथ प्रथम- प्रज्ञापना पदं आरभ्यते)
मू. (१०) से किं तं पन्नवणा ?, पन्नवणा दुविहा पन्नत्ता, तंजहा- जीवपन्नवणाय अजीव पन्नवणा य ॥
वृ. अथास्य सूत्रस्य कः प्रस्तावः ?, उच्यते, प्रश्नसूत्रमिदम्, एतच्चादावुपन्यस्तमिदं ज्ञापयति- पृच्छतो मध्यस्थबुद्धिमतोऽर्थिनो भगवर्हदुपदिष्टतत्त्वप्ररूपणा कार्या, न शेषस्य, तथा चोक्तम्- 'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः, तत्र सेशब्दो मागधदेशीप्रसिद्धो निपातः तत्रशब्दार्थे, अथवा अथशब्दार्थे, स च वाक्योपन्यासार्थः, किमिति परप्रश्ने, 'तं'ति तावदिति द्रष्टव्यम्, तच्च क्रमोद्दयोतने, तत एष समुदायार्थः- तिष्ठन्तु स्थानादीनि पदानि प्रष्टव्यानि, वाचः क्रमवर्त्तित्वात् प्रज्ञापनाऽनन्तरं च तेषामुपन्यस्तत्वात्,
तत्रैतावदेव तावत्पृच्छामि- किं प्रज्ञापनेति, ? अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि योजनीयानि' इति न्यायादेवं द्रष्टव्यम्, तत्र का तावत् प्रज्ञापनेति ?, एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादरार्थं किञ्चित् शिष्योक्तं प्रत्युच्चार्याह- 'पन्नवण दुविहा पन्नत्ता' इति, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाचष्टे - न सर्वमेव सूत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपम्, किन्तु किञ्चिदन्यथाऽपि, बाहुल्येन तु तथारूपम्,
यत उक्तम्- 'अत्थं भासइ अरिहा सुत्तं गंथन्ति गणहरा निउण' मित्यादि, तत्र प्रज्ञापनेति पूर्ववत्, 'द्विविधा' द्विप्रकारा 'प्रज्ञप्ता' प्ररूपिता, यदा तीर्थकरा एव निर्वक्तारस्तदाऽयमर्थोऽ वसेयः-अन्यैरपितीर्थकरैः, यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी तदा तीर्थकरगणधरैरिति द्वैविध्यमेवोपदर्शयति- 'तंजहा जीवपन्नवणा य अजीवपन्नवणा य'
‘तद्यथे’ति वक्ष्यमाणभेदकथनप्रकाशनार्थः, जीवन्तिप्राणान् धारयन्तीति जीवाः, प्राणाश्च द्विधा- द्रव्यप्राणा भावप्राणाश्च तत्र द्रव्यप्राणा इन्द्रियादयो भावप्राणा ज्ञानादीनि, द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकादयः, केवलभावप्राणैः प्राणिनो व्यपगतसमस्तकर्मसङ्गाः सिद्धाः, जीवानां प्रज्ञापना जीवप्रज्ञापना, न जीवा अजीवा - जीवविपरीतस्वरूपाः, ते च धर्माधर्माकाशपुद्गलास्तिकायाद्धासमयरूपास्तेषां प्रज्ञापना अजीवप्रज्ञापना, चकारौ द्वयोरपि प्राधान्यख्यापनार्थी, न खल्विहान्यतरस्याः प्रज्ञापनायाः गुणभावः, एवं सर्वत्राप्यक्षरगमनिका कार्या ॥
तदेवं सामान्येन प्रज्ञापनाद्वयमुपन्यस्य सम्प्रति विशेषस्वरूपावगमार्थमादावल्पवक्तव्यत्वादजीवप्रज्ञापनां प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह
मू. (११) से किं तं अजीवपन्नवणा?, अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा - रुविअजीवपन्नवणा य अरूविअजीवपन्नवणा य ।
वृ. अथ किं तत् अजीवप्रज्ञापनेति ?, अथवा का साऽजीवप्रज्ञापना ?, सूरिराह - 'अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा' इत्यादि, अजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-रूप्यजीवप्रज्ञापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 324