Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् -// तीर्थकर नामकर्मविपाकोदयप्रभवत्वात् उक्तंच - "तंच कहं वेइज्जइ ?, अगिलाए धम्मदेसणाएउ" इति । श्रोतॄणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं परं निश्रेयसपदं, विवक्षिताध्ययनसम्यगर्थावगमतः संयमप्रवृत्या सकलकर्मक्षयोपपत्तेः, ततः प्रयोजनवान् अधिकृताध्ययनप्ररम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, तच्चाधिकृताध्ययननाम्नो यथार्थत्वमात्रातप्यवगतं सम्बन्धश्च द्विधा– उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, स चैवम् अर्थतो भगवता वर्द्धमानस्वामिना जीवाजीवाभिगम उक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुग्रहायातिशायिमिश्चतुर्दशपूर्वधरैस्तृतीयस्मादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति २ । इदं च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुत्वात् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय स्वतो मङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते तच्चादिमध्यावसानभेदात्त्रिधा, तत्रादिमङ्गलम् 'इह खलुजिनमय' मित्यादि, अत्रजिननामोत्कीर्तनं मङ्गलं, मङ्गलं चनामादिभेदाच्चतुर्धा, तत्रेदं नोआगमतो भावमङ्गलम्, एतच्चाधिकृताध्ययनार्थपार-गमनकारणं, मध्यमङ्गलं द्वीपसमुद्रस्वरूपकथनं, निमित्तशास्त्र हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रहणाधिकारे तत्रोक्तम् - "जो जं पसत्थमत्थं पुच्छइ तस्सऽ त्यसंपत्ती" इत्यादि एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं "दसविहा सव्वजीवा इत्यादिरूपं, सर्वजीवपरिज्ञानहेतुत्वेन माङ्गलिकत्वात्, तच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थम्, उक्तंच"तं मंगलमाईए मज्झे पजंतए य सत्थस्स । पढमं सुत्तत्याविग्घपारगमणाय निद्दिहं ॥ तस्सेव उ थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव । अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥ 119 11 ॥२॥ अथ कथं सकलमेवेदमध्ययनं स्वतो मङ्गलभूतम् ?, उच्यते, निर्जरार्थत्वात्तपोवत्, निर्जरार्थता च सम्यगज्ञानरूपत्वात्, उक्तं च - 119 11 "जं अण्णाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । नाणी तर्हि गुत्तो खवे ऊसासमेत्तेणं ॥" मङ्गलशब्दव्युत्पत्तिश्चेयम् - उख नख वख मखेत्यादि दण्डकधातुः, मङ्गयतेऽधिगम्यते हितमनेनेति मङ्गलम्, अथवा मङ्ग इति धर्मस्याख्या तं लाति -आदत्ते इति मङ्गलं, तथा चास्मिन्नध्ययने मनसि भावतः परिणमति समुपजायते सुविशुद्धसम्यग्दर्शनादिको भावधर्म, उक्तं च“मंगिज्जएऽधिगम्मइ जेण हियं तेण मंगलं होइ । 119 11 अहवा मंगो धम्मो तं लाति तयं समादत्ते ॥” इति । यदिवा मां गालयति - अपनयति भवादिति मङ्गलं, मा भूद्गलो- विघ्नो गालो वा - नाशः शास्त्रस्यास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्ति । तदेवं प्रयोजनादित्रितयं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 532