Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-१
तथा सम्यक्प्रणयनक्रयाप्रवर्तनन प्ररूपितं, किमुक्तंभवति?-यद्यपिनामश्रोतान भगवद्विवक्षां साक्षादधिगच्छत तथाऽप्यनादिरयंशाब्दोव्यवहारः साक्षाद्विवक्षाग्रहणमन्तरेणापिभवति यथासङ्केतं शब्दार्थावगमो, बालादीनांतथा दर्शनात्, अन्यथा सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रार्था अपिशब्दा भगवतैव सङ्केतिताः प्रस्तावौचित्यादिनाचनियतमर्थं प्रतिपादयन्ति, ततश्चित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, नचान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारत्वात्, न चोपेक्षते, तीर्थप्रवर्तनाय प्रवृत्तत्वात् ।
ततोगणभृतां साक्षात् परम्परयाशेषसूरीणामपि यथाऽवस्थितार्थावगमइति नेदमविज्ञातार्थमिति, अन्ये त्वाहुः-भगवान्न प्रवचनप्रयासमाघत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतृणां प्रतिमास उपजायते यथा-इत्थमित्थं भगवान्तत्वमाचष्टे, उक्तंच॥१॥ “तदाधिपत्यादाभासः, सत्वानामुपजायते।
स्वयं तु यलरहितश्चिन्तामणिरिव स्थितः ॥” इति । तन्मतविकुट्टनार्थमाह-'जिनाख्यातं जिनेन–भगवतावर्द्धमानस्वामिनाप्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं कथितंजिनाख्यातं, साक्षात्कथनव्यापारोपलम्भेऽपि यदितदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतृणामित्यभ्युपगम्यतेततोऽन्यत्रापि तथाकल्पनाप्रसङ्गः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेतद्, भगवांश्चाख्यातवान् सम्यग् योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात्, सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलक्षणानि चामूनि॥१॥ "मध्यस्थो बुद्धिमान , जात्यादिगुणसंगतः।
श्रुतकृच्च यथाशक्ति, श्रोता पात्रमिति स्मृतः॥" ततः फलवदेवेदं जिनाख्यातमित्यावेदयन्नाह–'जिनानुचीर्ण जिना इह हिताप्त्यनिवर्तकयोगसिद्धा गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वातणां, ततोऽयमर्थ-जिनैः-हितास्थनिवर्त्तकयोगसिद्धैर्गणधारिभिरनुचीर्णं-सम्यक् तदर्थावगमासङ्गक्तिग निवर्त्तकसमभावप्राप्तया धर्ममेघनाकसमाधिरूपेणपरिणमितंजिनानुचीर्णम्, अतएव तथारूपसमाधिभावतः समुल्लसिकातिशयविशेषभावेन तेषांतथा सूत्रकरणशक्तिरितिदर्शयन्नाह-'जिनप्रज्ञप्तं' जिनैः-हितास्यनिवकयोगिभिप्रज्ञप्तं तदन्यसत्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितंजिनप्रज्ञप्तम्, उक्तंच॥१॥ अत्थं भासइअरिहा सुत्तं गंथंति गणहरा निउणं।
सासणस्स हियट्ठाए तओ सुत्तं पवत्तई । इति । इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं, तेषामेव सम्यग्विनेययोगभावतो हिताविघातकरणात्, इत्येतदुपदर्शयन्नाह–'जिनदेशितं जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात्, जिनेभ्यो-हितप्रवृत्ता. दिस्पेभ्यः सुश्रूषादिभिर्व्यक्तभावेभ्यो देशितं कथितंगणधरैरपि जिनदेशितं, तथा चजम्बूस्वमा मिप्रभृतय एवंविधा एवेति निरूपणीयमेतत्, अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानार्थोपनिपातसम्भवात्, दृष्टं च पात्रासुन्दरतय स्वतः सुन्दरमपिरविकराबुलूकादीनामनदिश्यते?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात्, दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराधुलूकादीनामनाय, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 532