Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१०
जीवाजीवाभिगमउपाङ्गसूत्रम् १/२ जीवाभिगमः प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोच्चार्यासंवलितनिर्वचनाभिधानमयुक्तं, असंवलितेसंवलितविधानायोगात्, नैष दोषः, प्रश्नसूत्रेऽप्यसंवलितस्यैवोपन्यासाभिन्नजातीययोरेकत्वायोगात्।तत्र यद्यपि यथोद्देशस्तथा निर्देश' इतिन्यायोऽस्ति, तथाऽप्यल्पतर-वक्तव्यत्वात् प्रथमतोऽवाभिगममभिधित्सुस्तप्रश्नसूत्रमाह
मू. (३) से किंतंअजीवाभिगमे? अजीवाभिगमे दुविहे पन्नत्ते, तंजहा-रूविअजीवाभिगमे य अरूविअजीवाभिगमे य ॥
वृ.अथकोऽसौ अजीवाभिगमः?, सूरिराह-अजीवाभिगमो द्विविधः प्रज्ञप्तः, तद्यथारूप्यजीवाभिगोऽरूप्यजीवाभिगमश्च, रूपमेषामस्तीतिरूपग्रहणंगन्धादीनामुपलक्षणं, तद्वयतिरेकेण तस्यासम्भवात्, तथाहि-प्रतिपरमाणु रूपरसगन्धस्पर्शा, उक्तं च॥१॥ “कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरसगन्धवर्णो द्विस्पर्श कार्यलिङ्गश्च ॥" __ एतेन यदुच्यते कैश्चित् 'भिन्ना एव रूपपरमाणवो भिन्नाश्च पृथक्पृथग्रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षबाधितत्वात्, तथाहि-य एव नैरन्तर्येण कुचकलशोपरिनिविष्टा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पर्शोऽप्युलभ्यते, य एव च घृतादिरसपरमाणवः कर्पूरादिगन्धपरमाणवो वातेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धिविषयः, अन्यथा सान्तरा रूपादयः प्रतीतिपथमिग्रियुः।
न च सान्तराः प्रतीयन्ते, तस्मादव्यतिरेकः परस्परं रूपादीनामिति, रूपव्यतिरिक्ता अरूपिणो-धर्मास्तिकायादयस्तेच तेऽजीवाश्चारूप्यजीवास्तेषामभिगमोऽरूप्यजीवाभिगमः॥
मू. (४) से किंतंअरूविअजीवाभिगमे?, अरूविअजीवाभिगमे दसविहे प०, तंजहाधम्मत्थिकाए एवं जहा पन्नवणाए जाव सेत्तं अरूविअजीवाभिगमे।
वृ. तत्रारूपिणः प्रत्यक्षाद्यविषयाः केवलमागमप्रमाणगम्यास्तत्वत इतिप्रथमतस्तद्विषयं प्रश्नसूत्रमाह-सुगमं, सूरिराह-'अरुवी'त्यादि ।अरूप्यजीवाभिगमः ‘दशविधः' दशप्रकारः प्रज्ञप्तः, तदेवदशविधत्वमाह-तंजहेत्यादि, 'तद्यथेति वक्ष्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकायः
“एवं जहा पन्नवणाए' इति ‘एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा वक्तव्यं तावद्द्यावत् ‘सेत्तं असंसारसमापन्नजीवाभिगमे इति, तच्चैवम्-“धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स पएसा अधम्मत्थिकाए अधम्मस्थिकायस्स देसे अधम्मस्थिकायस्स पएसा आगासत्थिकाएआगासस्थिकायस्देसे आगासस्थिकायस्सपएसाअद्धासमये" इति, तत्रजीवानां पुद्गलानां च स्वभावत् एव गतिपरिणामपरिणतानां तत्स्वभावधारणात्पोषणाद्धर्म अस्तयःप्रदेशास्तेषां कायः-सङ्घातः “गण काए य निकाए खंधे वग्गे तहेव रासी य" इति वचनात् अस्तिकायः-प्रदेशसङ्घात इत्यर्थः। ___धर्मश्चासावस्तिकायश्चधर्मास्तिकायः,अनेन सकलधर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवीच नामअवयवानांतथारूपः सङ्घातपरिणामविशेषएव, नपुनरवयवद्रव्येभ्यः पृथगर्थान्त द्रव्यं, तस्यानुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम्, उक्तं चान्यैरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b011639c09cd698d4899e0702631800411325d0270a89500a2607aedffa8d2c3.jpg)
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 532