Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ६ ज्ञाताधर्मकथाङ्गम् सटीकं (षष्ठं अगसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) 卐प्रथमः श्रुतस्कन्ध ) ॥१॥ नत्वा श्रीमन्महावीरं, प्रायोऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कश्चिदुच्यते॥ तत्र च फलमङ्गलादिचर्चः स्थानान्तरादवसेयः,केवलमनुयोगद्वारावेशेषस्योपक्रमस्य प्रतिभेदरूपप्रक्रान्तशास्त्र वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं तच्छिष्यं तु पञ्चमगणधरं सुधर्मस्वा-मिनमाश्रित्यानन्तरागमत्वंतच्छिष्यंचजम्बूस्वामिनमपेक्ष्य परम्परागमतांप्रतिपिपादयिषुः अथवाअनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारस्वभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतत्वमभिधित्सुः सूत्रकारः- 'तेणं कालेण' मित्यादिकमुपोद्घातग्रन्थं तावदादावाह (अध्ययनं-१-उलिप्तः) मू. (१) ॐ नमः सर्वज्ञाय । तेणं कालेणं तेणं समएणं चंपानामं नयरी होत्था वण्णओ वृ. तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते!' इत्यादिषु, ततोऽयं वाक्यार्थो जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययोः कः प्रति विशेषः?, उच्यते, काल इति सामान्यकालः अवसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा सुधर्मस्वामीचबभूव, अथवा तृतीयैवेयं, ततस्तेन कालेन-अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन-तद्विशेषभूतेन हेतुना 'चंपानामनगरी होत्य'त्तिअभवत्आसीदित्यर्थः, ननुचेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले?, तत्कथमुक्तमासीदिति?, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णिविभूतियुक्ता तदानीमासीद् इदानीं नास्तीति 'वण्णओ'त्तिचम्पानगर्यावर्णकग्रन्थोऽत्रावसरे वाच्यः, सचायं-'ऋद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता स्तिमिता-भयवर्जितत्वेन स्थिरा समृद्धाधनधान्यादियुक्ता ततः पदत्रयस्य कर्मधारयः ‘पमुइयजणजाणवया' प्रमुदिताः प्रमोदकारणवस्तूनांसद्मावाञ्जनाः-नगरीवास्तव्यलोकाजानपदाश्च-जनपदभवास्तत्रायाताःसन्तो For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 548