Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 18
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ १५ प्रदर्शनार्थं, तथाहि-उत्पन्नश्रद्धत्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, अपरस्त्वाह-जाता श्रद्धा यस्य प्रष्टुंसजातश्रद्धः, कथं जातश्रद्धो?, यस्माजातसंशयः, षष्ठाङ्गार्थः पञ्चमानार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि ?, यस्मात् जातकुतूहलः, कीशो नाम षष्ठानस्यार्थो भविष्यति कथं च तमहमव- भोत्स्ये? इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्नश्रद्धादयईहापायधारणाभेदेन वाच्या इति, उठाए०'त्तिउत्थानमुत्था-ऊध्व 'वर्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे' त्यादि प्रकटं, 'अज्जसुहम्मेथेरे' इत्यत्रषष्ठयर्थे सप्तमीति 'तिखुत्तो'त्तित्रिकृत्वस्त्रीन्वारान् ‘आदक्षिणप्रदक्षिणां' दक्षिणपाश्र्वादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरादक्षिणप्रदक्षिणातां अज्जसुहम्म थेरं' इत्यत्र पाठान्तरे आदक्षिणाप्रदक्षिणो-दक्षिणपार्श्वर्ती यः स तथा तं 'करोति' विदघाति वन्दते-वाचा स्तौति नमस्यति-कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः 'सुस्सूसमाणे'त्ति श्रोतु- मिच्छन् ‘नमंसमाणे'त्ति नमस्यन् प्रणमन् अभिमुखः ‘पंजलिउडे'त्ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन ‘पञ्जुवासमाणे'त्तिपर्युपासनां विदघानः एव मिति वक्ष्यमाणप्रकारं वदासित्ति अवादीत्, यदवादीत् तदाह-'जई'त्यादिप्रकटं, नवरं यदि भदन्त! श्रमणेन पञ्चमाङ्गस्यायमर्थःअनन्तरोदितत्वेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्यकोऽर्थःप्रज्ञप्तइतिप्रश्नवाक्यार्थः,अथोत्तरदानार्थं 'जम्बूनामे'त्तिहेजम्बू! इति-एवंप्रकारेणामन्त्रणवचसाऽऽमन्त्र्यआर्यसुधर्मास्थविरःआर्यजम्बूनामानं अनगारमेवमवादीत् 'नायाणि त्ति ज्ञातानि-उदाहरणानीतिप्रथमः श्रुतस्कन्धः 'धम्मकहाओ'त्ति धर्मप्रधानाः कथाः धर्मकथा इति द्वितीयः मू. (६) उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे ५। तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १०॥ वृ. 'उक्खित्ते'त्यादि श्लोकद्वयं सार्द्ध, तत्र मेघकुमारदजीवेन हस्तिभवे वर्तमानेन यः पाद उक्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुक्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातं, ज्ञातता चास्यैवंभावनीया-दयादिगुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानत्वादध्ययनमुक्तमेवं सर्वत्र १ । तथा संघाटकः श्रेष्ठिचौरयोरेकबन्धनबद्धत्वमिदमप्यभीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथा यथंचज्ञातत्वं प्रत्यध्ययनंतदर्थावगमादवसेयमिति २।नवरं अण्डकं-मयूराण्डं ३ । कूर्मश्च कच्छपः ४ । सैलको राजर्षिः ५। तुम्बंच-अलाबुः ६ रोहिणीश्रेष्ठिवधूः७।मल्ली-एकोनविंशतितमजिनस्थानोत्पन्नातीर्थकरी ८।माकन्दी नामवणिक् तत्पुत्रो माकन्दीशब्देनेह गृहीतः ९ । चंद्रमा इति च १०॥ मू. (७) दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ । नंदीफले १५ अवरकंका १६, अतिने १७ सुंसुमा इय १८॥ वृ. 'दावद्दवे'त्ति समुद्रतटे वृक्षविशेपाः ११ । उदकं-नगरपरिखाजलं तदेव ज्ञातम्उदाहरणं उदकज्ञातं १२ । मण्डूकः नन्दमणिकारश्रेष्ठिजीवः १३ । 'तेयली इय'त्ति तेतलि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 548