________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१
१५
प्रदर्शनार्थं, तथाहि-उत्पन्नश्रद्धत्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः,
अपरस्त्वाह-जाता श्रद्धा यस्य प्रष्टुंसजातश्रद्धः, कथं जातश्रद्धो?, यस्माजातसंशयः, षष्ठाङ्गार्थः पञ्चमानार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि ?, यस्मात् जातकुतूहलः, कीशो नाम षष्ठानस्यार्थो भविष्यति कथं च तमहमव- भोत्स्ये? इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्नश्रद्धादयईहापायधारणाभेदेन वाच्या इति, उठाए०'त्तिउत्थानमुत्था-ऊध्व 'वर्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे' त्यादि प्रकटं,
'अज्जसुहम्मेथेरे' इत्यत्रषष्ठयर्थे सप्तमीति 'तिखुत्तो'त्तित्रिकृत्वस्त्रीन्वारान् ‘आदक्षिणप्रदक्षिणां' दक्षिणपाश्र्वादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरादक्षिणप्रदक्षिणातां अज्जसुहम्म थेरं' इत्यत्र पाठान्तरे आदक्षिणाप्रदक्षिणो-दक्षिणपार्श्वर्ती यः स तथा तं 'करोति' विदघाति वन्दते-वाचा स्तौति नमस्यति-कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः 'सुस्सूसमाणे'त्ति श्रोतु- मिच्छन् ‘नमंसमाणे'त्ति नमस्यन् प्रणमन् अभिमुखः ‘पंजलिउडे'त्ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन ‘पञ्जुवासमाणे'त्तिपर्युपासनां विदघानः एव मिति वक्ष्यमाणप्रकारं वदासित्ति अवादीत्,
यदवादीत् तदाह-'जई'त्यादिप्रकटं, नवरं यदि भदन्त! श्रमणेन पञ्चमाङ्गस्यायमर्थःअनन्तरोदितत्वेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्यकोऽर्थःप्रज्ञप्तइतिप्रश्नवाक्यार्थः,अथोत्तरदानार्थं 'जम्बूनामे'त्तिहेजम्बू! इति-एवंप्रकारेणामन्त्रणवचसाऽऽमन्त्र्यआर्यसुधर्मास्थविरःआर्यजम्बूनामानं अनगारमेवमवादीत्
'नायाणि त्ति ज्ञातानि-उदाहरणानीतिप्रथमः श्रुतस्कन्धः 'धम्मकहाओ'त्ति धर्मप्रधानाः कथाः धर्मकथा इति द्वितीयः मू. (६) उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे ५।
तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १०॥ वृ. 'उक्खित्ते'त्यादि श्लोकद्वयं सार्द्ध, तत्र मेघकुमारदजीवेन हस्तिभवे वर्तमानेन यः पाद उक्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुक्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातं, ज्ञातता चास्यैवंभावनीया-दयादिगुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानत्वादध्ययनमुक्तमेवं सर्वत्र १ । तथा संघाटकः श्रेष्ठिचौरयोरेकबन्धनबद्धत्वमिदमप्यभीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथा यथंचज्ञातत्वं प्रत्यध्ययनंतदर्थावगमादवसेयमिति २।नवरं अण्डकं-मयूराण्डं ३ । कूर्मश्च कच्छपः ४ । सैलको राजर्षिः ५। तुम्बंच-अलाबुः ६ रोहिणीश्रेष्ठिवधूः७।मल्ली-एकोनविंशतितमजिनस्थानोत्पन्नातीर्थकरी ८।माकन्दी नामवणिक् तत्पुत्रो माकन्दीशब्देनेह गृहीतः ९ । चंद्रमा इति च १०॥ मू. (७) दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ ।
नंदीफले १५ अवरकंका १६, अतिने १७ सुंसुमा इय १८॥ वृ. 'दावद्दवे'त्ति समुद्रतटे वृक्षविशेपाः ११ । उदकं-नगरपरिखाजलं तदेव ज्ञातम्उदाहरणं उदकज्ञातं १२ । मण्डूकः नन्दमणिकारश्रेष्ठिजीवः १३ । 'तेयली इय'त्ति तेतलि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org