________________
१४
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/५ एवं खलु जंबू ! समणेणं जाव संपत्तेणं नायाणं एगूणवीसं अज्झयणा पं०, तं०
वृ. 'तए णं'ति ततोऽनन्तरं णमित्यलंकारे चम्पाया नगर्याः परिषत्-कूणिकराजादिका निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थं, "जामेव दिसिंपाउब्भूया तामेव दिसिंपडिगए'तियस्या दिशः सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थः तामेव दिशं प्रतिगतेति।
तस्मिन् कालेतस्मिन् समये आर्यसुधर्मणोऽन्तेवासीआर्यजम्बूनामनगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्तिसप्तहस्तोच्छ्रयो यावत्करणादिदं दृश्यं “समचउरससंठाणसंठिए वञ्जरिसहनारायसंघयणे कणगपुलगनिधसपम्हगोरे" कनकस्य-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पद्मगर्भस्तद्वत् गौरो यः स तता, वृद्धव्याख्या तु कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयः तप्रधानोयोनिकषो-रेखातस्य यत्पक्ष्मबहुलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः,
तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकृत्वा, तथा 'तत्ततवे' तप्तं-तापितं तपो येनस तत्पतपाः, एवंतेन तत्तपस्तप्तं येन कर्माणि संताप्यतेन तपसा स्वात्मापितपोरूपःसंतापितो यतोऽन्यस्यास्पृश्यमिवजातमिति, तथा महातपाः-प्रशस्ततपाबृहत्तपावा, तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजः कर्मेन्धनदाहकत्वात्,
तथा “उराले घोरेघोरगुणेघोरतवस्सी घोरबंभचेरवासीउच्छूढसरीरेसंखित्तविउलतेयलेसे" इति पूर्ववत्, एवंगुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य ‘अदूरसामंते'त्ति दूर-विप्रकर्षः सामन्तं-समीपं उभयोरभावोऽदूरसामन्तं तस्मिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः, कथं ? -‘उटुंजाणू' इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सनपदिस्यते ऊर्द्धजानुनी यस्यसऊर्द्धजानुः अधःशिराः' अधोमुखो नोतिर्यग् वा विक्षिप्तदृष्टिः किं तु नियतभूभागनियमितदृष्टिरिति भावना, 'झाणकोट्टोवगए'त्ति ध्यानमेव कोष्ठोध्यानकोष्ठस्तमुपगतोध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यंप्रक्षिप्तमविप्रकीर्णंभवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्याधिकृत्य संवृतात्मा भवतीति भावः, संयमेन-संवरेण तपसा-ध्यानेनात्मानंभावयन्-वासयन् विहरति-तिष्ठति। 'तएणंसे' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्शार्थः तस्य तु सामान्योक्तस्य विशेषावधारणार्थं आर्यजम्बूनामेति, सच उत्तिष्ठतीति सम्बन्धः,
किम्भूतः सन्नित्याह-'जायसद्धे' इत्यादि, जाता-प्रवृत्ताश्रद्धा-इच्छाऽस्येतिजातश्रद्धः, क्व ?-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने स तथा, जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्धारितार्थंज्ञानमुभयवस्त्वंशावलम्मिबतया प्रवृत्तं, सत्वेवंतस्यभगवतोजातः-यथा भगवता श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनभवनप्रकाशप्रदीपकल्पेन पञ्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽभिहित एवंषष्ठस्याप्युक्तोऽन्यथा वेति, तथा 'जातकुतूहलो' जातं कुतूहलंयस्य सतथा, जातौत्सुक्यइत्यर्थः, विश्वस्यापि विश्वव्यतिकरस्य पञ्चमाङ्गेप्रतिपादितत्वात्षष्ठाङ्गस्य कोऽन्योऽर्थो भगवताऽभिहितो भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः, तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्नश्रद्धः, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽथभेदो?, न कश्चिदेव, किमर्थं तत्प्रयोगः?, हेतुत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org