Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 6
________________ अध्ययनं-१,[नि. ] नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः |४३ उत्तराध्ययनानि-मूलसूत्रम् -१ सटीकं [चतुर्थं मूलसूत्रं] | [ पूर्वोद्धृत्-जिनभाषित-ऋषि प्रणित मूलम् भद्रबाहुस्वामि रचितानियुक्तिः + शान्त्याचार्यविरचिता वतिः । शिवदाः सन्तु तीर्थेशा, विघ्नसङ्घातघातिनः । भवकूपोद्धृतो येषां, वाग् वरत्रायते नृणाम् ॥१॥ समस्तवस्तुविस्तारे, व्यासर्पत्तैलवज्जले । जीयात् श्रीशासनं जैनं, धीदीपोद्दीप्तिवर्द्धनम् ।।२।। यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना। सा देवी संविदे न: स्तादस्तकल्पलतोपमा ॥३॥ व्याख्याकृतामखिलशास्त्रविशारदाना, सूच्यग्रवेधकधियां शिवमस्तु तेषाम्। यैरत्र गाढतरगूढविचित्रसूत्रग्रन्थिविभिद्य विहितोऽद्य ममापि गम्यः ।।४।। अध्ययनामामेषां यदपि कृताश्चूर्णिवृत्तयः कृतिभिः । तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधो ।।५।। वृ.इह खलु सकलकल्याणनिबन्धनं जिनागममवाप्य विवेकिनैवं विवेचनीयं-यदुत महार्थोऽयं मनोरथानामप्यपथभूतो भूरिजन्मान्तरोपचितपुण्यपरिपाकतो महानिधिरिवमयाऽधिगतः, तथाहि-महति संसारमण्डलेऽस्मिन् मानसादिदण्डैरभिहन्यमानाः कष्टेनेष्टविशिष्टार्थां महापुरीमिव मनुजगतिमनुप्रविशन्ति जन्तवः, अनुप्रविश्यापिचास्यामौर्ध्वरध्यिका इवाकृतसुकृतसम्भारा निरीक्षितुमपि नैनं क्षमन्ते, किमङ्गपुनरवाप्तुमिति?, एतदवाप्तौ सर्वथा कृतार्थोऽस्मि, सम्भवति चास्यां स्वोपकारवत्परोपकारेऽपि शक्तिरिति नेदानी युक्ता कदर्यता, किन्तु ?, भवितव्यमुदाराशयेन, परोपकारपूविकैव च स्वोपकारप्रवृत्तिरुदाराशयतां ख्यापयतीति परोपकार एवादितः प्रवर्तितुमुचितम् । सन्ति चास्मिन् महितमाहात्म्याः समीहितसम्पादकाश्च मणय इव चरणकरणादिगोचराचाराद्यङ्गानुयोगाः, न चैत इदानी सम्यग्दर्शनादिहेतुं मिथ्यात्वादिपिशाचशमनं धर्मकथात्मकोत्तराध्ययनायोगं रक्षाविधानमिवापहाय स्वयं ग्रहीतुमन्यस्मै वा दातुं युज्यन्ते, इत्यारभ्यत उत्तराध्ययनानुयोगः-तत्र च न तथाविधफलादिपरिज्ञान विकला प्रेक्षावतां प्रवृत्तिः, तस्यास्तद्यापकत्वाद, व्याप्यस्य च व्यापकाविनाभावित्वात्, अत: प्रेक्षवत्प्रवृत्त्यङ्गत्वात् फलयोगमङ्गलसमुदायार्थानुयोगद्वारतभेदनिरुक्तिक्रमप्रयोजनानि वाच्यानि । यच्च शब्दस्या Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 704