Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ अध्ययनं-१,[नि. ४] नि.[४] अंगप्पभवा जिनभासिया य पत्तेयबुद्धसंवाया। ___ बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा !! वृ. अङ्गाद् दृष्टिवादादः प्रभव-- उत्पत्तिोपामिति अङ्गप्रभवानि, यथा परीपहाध्ययनं, "कम्मप्पवायपुव्वे सत्तरसे पाहुडंमि जं सुत्तं । सनयं सोदाहरणं तं चेव इहंपि नायव्वं ।।" जिनभापितानि यथा द्रुमपुष्पिकाऽध्ययनं, तद्धि समुत्पन्नकेवलेन भगवता महावीरेण प्रणीतं, यद्वक्ष्यति-"तंनिस्साए भगवं सीसाणं देइ अनुसट्टि"त्ति, 'च:' समुच्चये, प्रत्येकवुद्धाश्च संवादश्च प्रत्येकबुद्धसंवादं तस्मादुत्पन्नानीति शेषः, तत्र प्रत्येकबद्धाः कपिलादयः तेभ्य उत्पन्नानि यथा कापिलीयाध्ययनं, वक्ष्यति हि-'धम्मट्टया गीयं' तत्र हि कपिलेनेति प्रक्रमः, संवादः .. सङ्गतप्रश्नोत्तरवचनरूपस्तत उत्पन्नानि, यथा-केशिगौतमीयं, वक्ष्यति च-"गोतमकेसीओ य संवायसमुट्ठियं तु जम्हेय"मित्यादि। ननु स्थविरचितचितान्येवैतानि, यत आह चूर्णिकृत्-"सत्ते थेराण अत्तागमो"ति नन्यध्ययनेऽप्युक्तम्-"जस्सजेत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउविहाए बुद्धीए उववेया तस्स तेत्तियाइं पइनगसहस्साई" प्रकीर्णाकानि चामूनि तत्कथं जिनदेशितत्वादि नविरुध्या?, उच्यते, तथास्थितानामेव जिनादिवसचसामिह दृब्धत्वेन तदेशितत्वाद्यक्तमिति न विरोधः । बन्ध-आत्मकर्मणोरत्यन्तसंश्लेपस्तस्मिन्, मोक्षः तयोरेवाऽऽत्यन्तिक: पृथग्भावस्तस्मिश्च कृतानि, कोऽभिप्राय:?-यथा बन्धो भवति यथा च मोक्षस्तथा प्रदर्शकानि, तत्र बन्धे यथा-"आणाअनिद्देसकरेत्ति" मोक्षे यथा-"आणानिदेसकरे"त्ति, आभ्यां यथाक्रममविनयो विनयश्च प्रदर्श्यते, तत्राविनयो मिथ्यात्वाद्यविनाभूतत्वेन बन्धस्य विनयश्चान्तरपौरुपत्वेन मोक्षस्य कारणमिति तत्त्वतस्तों यथा भवतस्तदेवोक्तं भवति, मोक्षप्राधान्येऽपि वन्धस्य प्रागुपादानमनादित्वोपदर्शनार्थं, यद्वा बंधे मोक्खे यत्ति' चशब्द एवकारार्थो भिन्नक्रमश्च, ततो बन्ध एवं सति यो मोक्षस्तस्मिन् कृतानि, अनेनानादिमुक्तमतव्यवच्छेदश्च कृतः, तत्र हि मोक्षशब्दार्थानुपपत्तिः सकलानुष्ठानवेफल्यापत्तिश्च, किमेवं कतिचिदेव?, नेत्याह-'पट्त्रिंशत्' पत्रिंशत्सङ्ख्यानि, कोऽर्थः? - सर्वाणि उत्तराध्ययनानि इति गाथार्थः । इत्थं प्रसङ्गत उक्तरूपं संशयमपाकृत्याध्ययननिक्षेपं विनेयानुग्रहाय तत्पर्यायनिक्षेपातिदेशं चाहनि.[५] नामं ठवणज्झयणे दव्वज्झयणे य भावज्झयणे। एमेव य अज्झीणे आयज्झवणेविय तहेव ।। वृ.'नाम ठवणज्झयणे'त्ति प्रत्येकमध्ययनशब्दसम्बन्धात्रामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं च स्य भिन्नक्रमत्वाद् भावाध्ययनं च, तत्र नामस्थापने गतार्थे, द्रव्याध्ययनमागमतो ज्ञातानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तं च पुस्तकादिन्यस्तं, भावाध्ययनमागमतो ज्ञातोपयुक्तः, नो आगमतस्तु प्रस्तुताध्ययनान्येव, आगमैकदेशत्वादेपाम् । एवं चाक्षीणमायः क्षपणाऽपि च तथैव, कोऽर्थः ?-अध्ययनवदेतान्यपि नामादिभेदभिन्नान्येव ज्ञेयानीति गाथार्थः ।। साम्प्रतं नामाध्ययनादीनि त्रीणि प्रसिद्धान्येवेति मन्यमानो नियुक्तिकारो निरुक्तिद्वारेणे नोआगमतो भावाध्ययनं व्याख्यातुमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 704