Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ पदं-१, उद्देशकः-, द्वारंकाशास्तिकायः, 'आकाशस्तिकायस्य देश'; इत्यादि पूर्ववत्, नवरं प्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात् । 'अद्धेति' कालस्याख्या, अद्धाचासौ समयश्चाद्धासमयः, अथवाऽद्धायाः समयो निर्विभागो भागः,अयं च एक एव वर्तमानः परमार्थः सन्, नातीता नानागताः समयाः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वेनासत्त्वात, ततः कायत्वाभाव इति देशप्रदेशकल्पनाविरहः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति ततः समुदयसमित्याधसम्भवेन व्यवहारार्थमेव कल्पिता इति द्रष्टव्यम् । तथा अमीषामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदौ धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा च सम्प्रति प्रथमत उत्क्षिप्ता वर्तते, ततो मङ्गलार्थमादी धर्मास्तिकायस्योपादानम्, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपिचानयोराधारभूतमाकाशमितितदनन्तरमाकाशास्तिकायस्य, ततः पुनरजीवसाधादद्धासमयस्य,अथवेहधर्माधर्मास्तिकायौ विभून भवतः, तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्ती लोकालोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षाद्दर्शनात, ततो यावति क्षेत्रेऽवगाढौ तावप्रमाणो लोकः शेषस्त्वलोक इति सिद्धम्, उक्तं च॥१॥ “धर्माधर्मविभुत्वात् सर्वत्र च दीवपुद्गलविचारात्। नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ।। ॥२॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् । ___ एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥" ततः एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकावावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकाकस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, स्वमागमानुसारेणान्यदपियुक्तयनुपाति वक्तव्यम्, इत्यलं प्रसङ्गेन ! प्रकृतोपसंहारमाह-'सेतंअरूविअजीवपन्नणा' सैषाअरूप्यजीवप्रज्ञापना ।पुनराह विनेयः मू. (१३) से किं तं रूविअजीवपन्नवणा?, रूविअजीवपन्नवणा चउब्विहा पनत्ता, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपोगला, ते समासओ पंचविहा पन्नत्ता, तंजहा-वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया। वृ.अथ का सा रूप्यजीवप्रज्ञापना?, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा-'स्कन्धाः स्कन्दन्ति शुकन्तिधीयन्तेच-पुष्यन्तेपुद्गलानांविचटनेन चटनेनचेति स्कन्धाः, 'पृषोदरादय' इति रूपनिष्पत्तिः,अत्र बहुवदनंपुद्गलस्कन्धानामानन्त्यक्यापनार्थम्, नचानन्त्यमनुपपन्नम्, आगमेऽमधानात्, तथा च वक्ष्यति 'दव्वओणंपुग्गलथिकाए'इत्यादि, स्कन्धदेशाः' स्कन्धानामेवस्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिता दयादिप्रदेशात्मका दिभागाः, अत्रापिबहुवचनमनन्तानन्तप्रादेशिकेषुतथाविधेषु स्कन्धेषु देशानन्तत्वसम्भावनारअथम्, स्कन्धानांस्कन्धत्वपरिणामपरिणतानांबुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागाभागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनं प्रदेशानन्तत्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 664