________________
पदं-१, उद्देशकः-, द्वारंकाशास्तिकायः, 'आकाशस्तिकायस्य देश'; इत्यादि पूर्ववत्, नवरं प्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात् । 'अद्धेति' कालस्याख्या, अद्धाचासौ समयश्चाद्धासमयः, अथवाऽद्धायाः समयो निर्विभागो भागः,अयं च एक एव वर्तमानः परमार्थः सन्, नातीता नानागताः समयाः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वेनासत्त्वात, ततः कायत्वाभाव इति देशप्रदेशकल्पनाविरहः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति ततः समुदयसमित्याधसम्भवेन व्यवहारार्थमेव कल्पिता इति द्रष्टव्यम् ।
तथा अमीषामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदौ धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा च सम्प्रति प्रथमत उत्क्षिप्ता वर्तते, ततो मङ्गलार्थमादी धर्मास्तिकायस्योपादानम्, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपिचानयोराधारभूतमाकाशमितितदनन्तरमाकाशास्तिकायस्य,
ततः पुनरजीवसाधादद्धासमयस्य,अथवेहधर्माधर्मास्तिकायौ विभून भवतः, तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्ती लोकालोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षाद्दर्शनात, ततो यावति क्षेत्रेऽवगाढौ तावप्रमाणो लोकः शेषस्त्वलोक इति सिद्धम्, उक्तं च॥१॥ “धर्माधर्मविभुत्वात् सर्वत्र च दीवपुद्गलविचारात्।
नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ।। ॥२॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् ।
___ एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥" ततः एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकावावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकाकस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, स्वमागमानुसारेणान्यदपियुक्तयनुपाति वक्तव्यम्, इत्यलं प्रसङ्गेन !
प्रकृतोपसंहारमाह-'सेतंअरूविअजीवपन्नणा' सैषाअरूप्यजीवप्रज्ञापना ।पुनराह विनेयः
मू. (१३) से किं तं रूविअजीवपन्नवणा?, रूविअजीवपन्नवणा चउब्विहा पनत्ता, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपोगला, ते समासओ पंचविहा पन्नत्ता, तंजहा-वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया।
वृ.अथ का सा रूप्यजीवप्रज्ञापना?, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा-'स्कन्धाः स्कन्दन्ति शुकन्तिधीयन्तेच-पुष्यन्तेपुद्गलानांविचटनेन चटनेनचेति स्कन्धाः, 'पृषोदरादय' इति रूपनिष्पत्तिः,अत्र बहुवदनंपुद्गलस्कन्धानामानन्त्यक्यापनार्थम्, नचानन्त्यमनुपपन्नम्, आगमेऽमधानात्, तथा च वक्ष्यति
'दव्वओणंपुग्गलथिकाए'इत्यादि, स्कन्धदेशाः' स्कन्धानामेवस्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिता दयादिप्रदेशात्मका दिभागाः, अत्रापिबहुवचनमनन्तानन्तप्रादेशिकेषुतथाविधेषु स्कन्धेषु देशानन्तत्वसम्भावनारअथम्, स्कन्धानांस्कन्धत्वपरिणामपरिणतानांबुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागाभागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनं प्रदेशानन्तत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org