________________
प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1११
च अरूप्यजीवप्रज्ञापना च, रूपमेषामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणम्, तद्वयतिरिकेण तस्यासम्भवात, तथाहि-प्रतिपरमाणु रूपरसगन्धस्पर्शाः, उक्तं च-'
'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गथ" तस्मादव्यतिरेकः परस्परंरूपादीनामिति, अथवा रूपं नाम-स्पर्शरूपादिसम्मूर्च्छनात्मिका मूर्तिस्तदेषामस्तीतिरूपिणाः, रूपिणश्चतेऽजीवाश्च रूप्यजीवाः तेषां प्रज्ञापना रूप्यजीवप्रज्ञापना, पुद्गलस्वरूपाजीवप्रज्ञापनेतियावत्, पुद्गलानामेव रूपादिमत्त्वात्, रूपिव्यतिरेकेणारूपिणो धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवाः तेषां प्रज्ञापना अरूप्यजीवप्रज्ञापना, चशब्दो प्राग्वत् ।। तत्राल्पवक्तव्यत्वात् प्रथमतोऽरूप्यजीवप्रज्ञापनां चिकीर्षुरिदमाह
मू. (१२) से किं तं अरुविअजीवपन्नवणा?, अरुविअजीवपन्नवणा दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स पदेसा अधम्मत्थिकाए अधम्मस्थिकायस्स देसे अधम्मथिकायस्स पदेसा आगासस्थिकाए आगासस्थिकायस्सदेसे आगासस्थिकायस्स पदेसा अद्धासमए १०, सेत्तं अरूविअजीवपन्नवणा ||
वृ. सेशब्दोऽथशब्दार्थः, अथ का सा अलप्यजीवप्रज्ञापना?, सूरिराह-अरूप्यजीवप्रज्ञापना 'दशविधा' दशप्रकाराप्रज्ञप्ता, अरूप्यजीवानांदशविधत्वात्तप्ररूपणाऽपि दशविधोक्ता, तदेव दशविधत्वं दर्शयति-तंजहे त्यादि, तद्यथेतिवक्ष्यमाणभेदकथनोहयोतनारअथः, तद्दशविधत्वम्, यदिवा 'तदि' त्यव्ययं सर्वलिङ्गवचनेषु सा दशविधाऽरूप्यजीवप्रज्ञापना यथा भवति तथा दयते- 'धम्मस्टिकाए'त्ति जीवानां पुद्गलानां च स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभाव-धरणात्-तत्स्वभावपोषणाद्धर्मः अस्तयश्चेहप्रदेशास्तेषां कायः-सद्धातः, 'गणकाए य निकाए खन्धे वग्गे तहेव रासी य' इतिवचनात्, अस्तिकायः प्रदेशसङ्घात इत्यर्थः, धर्मश्चासौ अस्तिकायश्च धर्मास्तिकायः, अनेन च सकलमेव धर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवी च नामावयवानां तथारूपसङ्घातपरिणामविशेष एव, न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरं द्रव्यम्, तथाऽनुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम, उक्तं चान्यैरपि-- ॥१॥ "तन्त्वादिव्यतिरेकेण, न पटाद्युपलम्भनम् ।
तन्त्वादयो विशिष्टा हि, पटादिव्यपदेशिनः।।" कृतं प्रसङ्गेन, अन्यत्र चिन्तित्वादेतद्वादस्य, तथा 'धर्मास्तिकायस्य देश' इति तस्यैव धर्मास्तिकायस्य बुद्धिविकल्पितोद्यादिप्रदेशात्मको विभागः, 'धममस्थिकायस्स पदेसा' इतिप्रकृष्टा देशाःप्रदेशाः-निर्विभागा भागा इति भावः, तेचासङ्घयेयाः, लोकाकाशप्रदेशप्रमाणत्वात् तेषाम्, अतएवबहुवचनम्, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तंभवति?-जीवपुद्गलानां स्थितिपरिणामपरिणतानांतत्परिणामोपष्टम्मकोऽमूर्तोऽसंख्यातप्रदेशसंघातात्मकोऽधर्मास्तिकायः 'अधर्मास्तिकायस्य देश' इत्यादि पूर्ववत् ।
तथा 'आङिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते-स्वरूपेण प्रतिभासन्ते अस्मिन् व्यवस्थिताः पदार्थाइत्याकाशम्, यदा त्वभिविधावाङ्तदा आङि'तिसर्वभावाभिव्याप्तया काशते इत्याकाशम्, अस्तयः-प्रदेशास्तेषां कायोऽस्तिकायः आकाशं च तदस्तिकायश्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org