________________
पदं-१, उद्देशकः--,
द्वारं
त्रिंशत्तमं 'पासणय'त्ति दर्शनता ३० एकत्रिंशत्तमं संज्ञा ३१ द्वात्रिंशत्तमं संयमः ३२ त्रयस्त्रिंशत्तमभवधिः ३३ चतुस्त्रिंशत्तमं प्रविचारणा ३४ पञ्चत्रिंशत्तमं वेदना ३५ षट्त्रिंशत्तमं समुद्घातः ३६ ॥ तदेवमुपन्यस्तानि पदानि ।।
११
साम्प्रतं यथाक्रमं पदगतानि सूत्राणि वक्तव्यानि तत्र प्रथमपदगतमिदमादिसूत्रम्( अथ प्रथम- प्रज्ञापना पदं आरभ्यते)
मू. (१०) से किं तं पद्मवणा?, पत्रवणा दुविहा पन्नत्ता, तंजहा--जीवपन्नवणा य अजीव
पन्त्रवणाय ।।
वृ. अथास्य सूत्रस्य कः प्रस्तावः ?, उच्यते, प्रश्नसूत्रमिदम्, एतच्चादादुपन्यस्तमिदं ज्ञापयति- पृच्छतो मध्यस्थवुद्धिमतोऽर्थिनो भगवर्हदुपदिष्टतत्त्वप्ररूपणा कार्या, न शेषस्य, तथ चोक्तम्- 'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः, तत्र सेशब्दो मागधदेशीप्रसिद्धी निपातः तत्रशब्दार्थे, अथवा अथशब्दार्थे, स च वाक्योपन्यासार्थः, किमिति परप्रश्ने, 'तं'ति तावदिति द्रष्टव्यम्, तच्च क्रमोद्दयोतने, तत एष समुदायार्थः- तिष्ठन्तु स्थानादीनि पदानि प्रष्टव्यानि, वाचः क्रमवर्त्तित्वात् प्रज्ञापनाऽनन्तरं च तेषामुपन्यस्तत्वात्,
तत्रैतावदेव तावत् पृच्छामि किं प्रज्ञापनंति, ? अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि योजनीयानि' इति न्यायादेवं द्रष्टव्यम्, तत्र का तावत् प्रज्ञापनेति ?, एवं सामान्येन केनचित्प्रश् कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादरार्थं किञ्चित् शिष्योक्तं प्रत्युच्चार्याह- 'पन्नवण दुबिहा पत्रत्ता' इति, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाचष्टे - न सर्वमेव सूत्र गणधरप्रश्नतीधंकर निर्वचनरूपम्, किन्तु किञ्चिदन्यथाऽपि, बाहुल्येन तु तथारूपम्,
यत उक्तम्- 'अत्थं भासइ अरिहा सुत्तं गंधन्ति गणहरा निउण' मित्यादि, तत्र प्रज्ञापनेति पूर्ववत्, 'द्विविधा' द्विप्रकारा 'प्रज्ञप्ता' प्ररूपिता, यदा तीर्थकरा एव निर्वक्तारस्तदाऽयमर्थोऽ वसेयः-अन्यैरपितीर्थकरैः, यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी तदा तीर्थकरगणधरैरिति द्वैविध्यमेवोपदर्शयति- 'तंजहा जीवपन्नवणा य अजीवपन्नवणा य'
'तद्यथे’ति वक्ष्यमाणभेदकथनप्रकाशनार्थः, जीवन्तिप्राणान् धारयन्तीति जीवाः, प्राणाश्च द्विधा - द्रव्यप्राणा भावप्राणाश्च तत्र द्रव्यप्राणा इन्द्रियादयो भावप्राणा ज्ञानादीनि, द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकादयः, केवलभावप्राणैः प्राणिनो व्यपगतसमस्तकर्मसङ्गाः सिद्धाः, जीवानां प्रज्ञापना जीवप्रज्ञापना, न जीवा अजीवा - जीवविपरीतस्वरूपाः, ते च धर्माधर्माकाशपुद्गलास्तिकायाद्धासमयरूपास्तेषां प्रज्ञापना अजीवप्रज्ञापना, चकारौ द्वयोरपि प्राधान्यख्यापनार्थी, न खल्विहान्यतरस्याः प्रज्ञापनायाः गुणभावः, एवं सर्वत्राप्यक्षरगमनिका कार्या ॥
तदेवं सामान्येन प्रज्ञापनाद्वयमुपन्यस्य सम्प्रति विशेषस्वरूपावगमार्थमादावल्पवक्तव्यत्वादजीवप्रज्ञापनां प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह-
भू. (११) से किं तं अजीवपन्नवणा?, अजीवपन्त्रवणा दुविहा पन्नत्ता, तंजहा- रुविअजीवपत्रवणाय अरूविअजीवपत्रवणाय ।
वृ. अथ किं तत् अजीवप्रज्ञापनेति ?, अथवा का साऽजीवप्रज्ञापना ?, सूरिराह-'अजीवपत्रवणा दुविहा पन्नत्ता, तंजहा' इत्यादि, अजीवप्रज्ञापना द्विविधाप्रज्ञप्ता, तद्यथा-रूप्यजीव प्रज्ञापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org