SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१३ सम्भावनार्थम्, ‘परमाणुपुद्गला इति' परमाश्च तेऽणवञ्च परमाणवो निर्विभागद्रव्यरूपाः ते च ते पुद्गलाश्च परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः । 'ते समासओ' इत्यादि, ते स्कन्धाध्यो यथासम्भवं 'समासतः' सङ्क्षेपेण पञ्चविधाः प्रज्ञप्ताः, तद्यथा- 'वर्णपरिणताः ' वर्णतः परिणताः, वर्णपरिणामभाजइत्यर्थः, एवं गन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः परिणता इत्यतीतकालनिर्देशो वर्त्तमानातगतकालोपलक्षणं, वर्त्तमानानागतत्वमन्तरेणातीतत्वस्यासम्भवात्, तथाहि - यो वर्तमानत्वमतिक्रान्तः सोऽतीतोहवति, वर्त्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान्, उक्तं च 119 11 “भवति स नामातीतो यः प्राप्तो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥” ततो वर्णपरिणता इति वर्णरूपतया परिणताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम्, एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम् । मू. (१३ - वर्तते) जे वण्णपरिणया ते पंचविहा पश्नत्ता, तंजहा - कालवण्णपरिणया नीलवण्णप० लोहियवण्णप० हालिद्दवण्णप० सुकिल्लवण्णपरिणया, जे गंधपरिणता ते दुविहा पं० तं०- सुब्भिगंधपरिणता य दुब्भिगंधपरिणता य, जे रसपरिणता ते पंचविहा पं० तं० - तित्तपरिणता कडुयरसपरिणता कसायरसपरिणया अंबिलरसपरिणता महुरसपरिणया, जे फासपरिणता ते अट्ठविहा पं० तं०- कक्खडफासपरिणया मउयफासपरिणया गुरुय फासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया निद्धफासपरिणया लुक्खफासपरिणया, जे सण्ठाणपरिणया ते पंचविहा पं० तं०- परिमंडलसंठाणपरिणया वट्टसंठाणपरि० तंससंठाणप० चउरंससं० प० आयतसंठाणपरिणया । . ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा - कृष्णवर्णपरिणताः कज्जलादिवत्, नीलवर्णपरिणता नील्यादिवत्, लोहितवर्णपरिणता हिङ्गुलकादिवत्, हारिद्रवर्णपरिणता हरिद्रादिवत्, शुक्लवर्णपरिणताः शङ्खादिवत् । ये गन्धपरिणतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्च दुरभिगन्धपरिणताश्च, चशब्दी परिणामभवनं प्रति विशेषाभावख्यापनार्थी, तथाहि - यथा कथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणामं भजन्ते तथा कथञ्चिदवस्थिता एव सामग्रीवशतो दुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् । ये रसपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा- तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत्, कषायरसपरिणता अपक्ककपित्थादिवत् अम्लरसपरिणता अम्लवेतसादिवत्, मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा- कर्कशस्पर्शपरिणताः पाषाणादिवत्, मृदुस्पर्शपरिणता हंसरुतादिवत्, गुरुकस्पर्शपरिणताः वज्रादिवत्, लघुकस्पर्श० अर्कतूला दिवत्, शीतस्पर्शपरिणता मृणालादिवत्, उष्णस्पर्श० वह्ययादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत्, रूक्षस्पर्शपरिणता भस्मादिवत् । ये संस्थान परिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा - परिमण्डलसंस्थानपरिणता वलयवत्, For Private & Personal Use Only www.jainelibrary.org १४ Jain Education International
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy