SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पद-१, उद्देशकः-, द्वारवृत्तसंस्थानपरिणताः कुलालचक्रादिवत्, त्र्यम्नसंस्थानपरिणताःशृङ्गाटकादिवत्, चतुरनसंस्थानपरिणताः कुम्भिकादिवत्, आयतसंस्थानपरिणता दण्दादिवत्, एतानि च परिमण्डलादीनि संस्थानानिधनप्रतरभेदेन द्विविधानि भवन्ति, पुनः परिमण्डलमपहायशेषाणिओजःप्रदेशजनितानि युग्मप्रदेशजनितानीति द्विधा, तत्रोत्कृष्टं परिमण्डलादि सर्वमनन्ताणुनिष्पन्नमसङ्खयेयप्रदेशावगाढं चेति प्रतीतमेव, जघन्यं तु प्रतिनियतसङ्ख्येपरमाण्वात्मकम्, अतो नानिर्दिष्टं ज्ञातुं शक्यते इति विनेयजनानुग्रहाय तदुपदर्यते-तत्रौजःप्रदेशप्रतरवृत्तं पञ्चपरमाणुनिष्पन्न पञ्चाकाशप्रदेशावगाढं च, तद्यथा-एकः परमाणुमध्ये स्थाप्यते, चत्वारः क्रमेणपूर्वादिषुचतसृषु दिक्षु, युग्मप्रदेशप्रतरवृत्तं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगढं च, तत्र निरन्तरं चत्वारः परमाणवश्चतुष्वाकाशप्रदेशेषु रुचकाकारेण व्यवस्थाप्यन्ते, ततस्तत्परिक्षेपेण शेषाअष्टौओजःप्रदेशंधनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च, तच्चैवं-तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्टादधस्ताच्च एकैकोऽणुरवस्थाप्यते, तत एवं सप्तप्रदेशंभवति युग्मग्रदेशं धनवृत्तं द्वात्रिंशप्रदेशं द्वात्रिंशप्रदेशावगाढं च, तच्चैवं-पूर्वोक्तद्वादशप्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये चत्वारश्चत्वारः परमाणव इति ओजः प्रदेशं प्रतरत्र्यनं त्रिप्रदेशं त्रिप्रदेशावगाढंच, तच्चैवं पूर्वतिर्यगणुद्वयं न्यस्यते, तत आद्यस्याध एकोऽणुः, स्थापना-युग्मप्रदेशं प्रतरत्र्यनं षट्परमाणुनिष्पन्नं षट्प्रदेशावगाढं च, तत्र तिर्यगनिरन्तरं त्रयः परमाणवः स्थाप्यन्ते, ततआधस्याद्य उपर्यधोभावेनाणुद्वयं द्वितीयस्याध एकोऽणुः, स्थापनाओजः-प्रदेशं धनत्र्यनं पञ्चत्रिंशत्परमाणुनिष्पन्नं पञ्चत्रिंशप्रदेशावगाढंच, तचैवं-तिर्यग निरन्तराः पञ्च परमाणवःस्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो द्वावेकश्चेति पञ्चदशात्मकः प्रतरोजातः, स्थापना-अस्यैवचप्रतरस्योपरि सर्वपक्तिश्वन्त्यान्त्यपरित्यागेन दश १०, तथैव तदुपर्युपरि षट्ब्रय एकश्चेति क्रमेणाणवः स्थाप्यन्ते, एते मीलिताः पञ्चत्रिंशद्भवन्ति युग्मनदेशं धनत्र्यनं चतुष्परमाणवात्मकं चतुष्प्रदेशावगाढंच प्रतरत्र्यनस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, ततो मीलिताश्च त्वारो भवन्ति ।। ओजःप्रदेशं प्रतरचतुरस्रं नवपरमाण्वात्मकं नवप्रदेशावगाढं च, तब तिर्यग् निरन्तरं त्रिप्रदेशास्तिनः पङ्कत्तयः स्थाप्यन्ते, स्थापनायुग्मप्रदेशंप्रतरचतुरनंचतुष्परमाण्वात्मकंचतुष्प्रदेशावगाढंच, तत्र तिर्यग द्विप्रदेशे द्वे पङ्कितस्थाप्येते, ओजःप्रदेशंधनचतुरनं सप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशावगाढं च, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते, ततः सप्तविंशतिप्रदेशात्मकमोजः प्रदेशंधनचतुरनं भवति अस्यैव युग्मप्रदेशं धनचतुरसमष्टपरमाण्वात्मकमटप्रदेशावगाढंच, तच्चैवं-चतुष्प्रदेशात्मकस्यपूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते ३।। ओजःप्रदेशं श्रेण्यायतं त्रिपरमाणु त्रिप्रदेशावगाढंच, तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढंच, तथैवाणुद्वयं स्थाप्यते ओजः-प्रदेशं प्रतरायतं पञ्चदशपरमाण्वात्मकं पञ्चदशप्रदेशावगाढं च, तत्र पञ्चप्रदेशाल्मिकास्तिमः पङ्तयस्तिर्यक् स्थाप्यन्ते, युग्मप्रदेशं प्रतरायतं षट्परमाण्वात्मकं षट्प्रदेशावगाढंच, तत्रत्रिप्रदेशंपङ्क्तिद्वयंस्थाप्यते, स्थापना-ओजःप्रदेशंधनायतंपञ्चचत्वारिंशत् परमाण्वात्मकंतावप्रदेशावगाढंच, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्चदशप्रदेशात्मकस्याध उपरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy