Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ पदं-१, उद्देशकः-, द्वारं वृ.सितं-बद्धमष्टप्रकारं कर्मेन्धनं मातं-दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'षिधु गतौ' सेधन्ति स्म-अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् यदिवा 'षिधसंराद्धौ सिध्यन्तिस्म-निष्ठितार्था भवन्ति स्म यद्वा विधुशास्त्रेमाङ्गल्ये च' सेधन्ते स्म-शासितारोऽभवन् मङ्गल्यरूपतां वाऽनुभवन्ति स्मेति सिद्धाः, अथवा सिद्धाः-नित्या अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यरुपलब्धगुण-सन्दोहत्वात्, उक्तं च-- ॥१॥ "मातं सितं येन पुराणकर्म, यो वा गतो निवृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ।।" सिद्धाश्च नामादिभेदतोऽनेकधाततो यथोक्तसिद्धप्रतित्यर्थं विशेषणमह–'व्यपगतजरामरणभयान्' जरावयोहनिलक्षणा मरणं-प्राणत्यागरूपम् भयम्-इहलोकादिभेदात्सप्तप्रकारम्, उक्तंच- "इहपरलोगादाणंअकम्हआजीवमरणमसिलोए' इति, विशेषतः-अपुनर्भावरूपतया अपगतानि-परिभ्रटानि जरामरणभयानि योभ्यस्ते तथा तान्, 'त्रिविधेन मनसा वाचा कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह, 'अभिवन्ध अभिमुखं वन्दित्वा, प्रणम्येत्यर्थः अनेनसमानकर्तृकतयापूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तपक्षव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षेक्त्वाप्रत्ययस्यासम्भवात्, तथाहि--अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यम्, तस्य कथं भिन्नकालक्रियाद्वयकर्तृत्वोपपत्तिः ?, आकालमेकखभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात्, अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्यापि भिन्नकालक्रियाद्वयकतृत्वायोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात, कत्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह--'वंदामि जिनवरिंद'मित्यादि, 'सूर वीर विक्रान्ती' वीरयति स्म कषायादिशत्रून् प्रति विक्रामति स्मेति वीरः, महांश्चासौ वीरश्च महावीरः, इदंच ‘महावीर' इति नाम न याईच्छिकम्, किन्तु यथावस्थितमनन्यासाधारणं परीषहोपसर्गादिविषयं वीरत्वमपेक्ष्य सुरासुरकृतम्, उक्तं च-"अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं । देवेहिं खए महावीर" इति, अनेनापायापगमातिशयो ध्वन्यते, तं कथंभूतमित्याह-'जिनवरेन्द्रम् जयन्ति-रागादिशत्रूनभिभवन्ति जिनाः,तेच चतुर्विधाः, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायजिना केवलिजिनाः, तत्र केवलिजिनत्वप्रतिपत्तये वरग्रहणम्, जिनानां वराउत्तमा भूतभवद्भाविभावस्वभावा-वभासिकेवलज्ञानकलितत्वात् जिनवराः, ते चातीर्थकरा अपि सन्तः सामान्यकेवलिनो भवन्तिततस्तीर्थकरत्वप्रतिपत्त्यर्थमिन्द्रग्रहणम्, जिनवराणामिन्द्रो जिनवरेन्द्रः,प्रकृष्टपुण्यस्कन्धरूपतीर्थं करनामकर्मोदयात्तीर्धकर इत्यर्थः। __ अनेन ज्ञानातिशयं पूजातिशयं चाह, ज्ञानातिशयमन्तरेण जिनेषु मध्ये उत्तम त्वस्य पूजातिशयमन्तरेणजिनवराणामपिमध्ये इन्द्रत्वस्यायोगात्, तंपुनः किंभूतमित्याह- त्रैलोक्यगुरुम् गृणाति यथावस्थितंप्रवचनार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुः, तथाच भगवान्अधोलोकनिवासिभवनपतिदेवेभ्यस्तिर्यग्लोकनिवासिव्यन्तरनरपशुविद्याधरज्योतिष्केभ्य ऊर्ध्वलोकनिवासिवैमानिकदेवेभ्यश्च धर्म दिदेश, तम्, अनेन वागतिशयमाह। एते चापायापगमातिशयादयश्चत्वारोऽप्यतिशया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्, तानन्तरेणषामसम्भवात्, ततश्चतुस्त्रिंशदतिशयोपेतं भगवन्तं महावीरं वन्दे इत्युक्तं www.jainelibrary.org Jain Education International For Private & Personal Use Only


Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 664