Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 269
________________ २४४ परशोः तैक्ष्ण्यगौरव काठिन्यादिविशेषलक्षणोपेतस्य सतः करणभाव:, न च तथा ज्ञानस्य स्वरूपं पृथगुपलभामहे । अपेक्षाभावात् दृष्टो हि परशो देवदत्ताधिष्ठितोद्य मन निपातनापेक्षस्य करणभाव:, न च तथा ज्ञानेन किञ्चित् कर्तुसाध्यं क्रियान्तरमपेक्ष्यमस्ति । किञ्च तत्परिणामाभावात् छेदन किया परिणतेन हि देवदर्शन तत्क्रियायाः साचिव्ये नियुज्यमानः परशुः करणम्' इत्येत द्युक्तम्, न च तथा आत्मा ज्ञानक्रियापरिणतः । अर्थान्तरत्वे तस्याऽज्ञत्वात् । इह यज्ज्ञानादन्यद्भवति तदज्ञं दृष्टं यथा घटादिद्रव्यम्, तथा च ज्ञानादन्य आत्मा इत्यज्ञत्वप्रसङ्गः । ज्ञानयोगाज्ज्ञत्वं दृष्टत्वात् दण्डिवदिति चेत्; न; तत्स्वभावाभावे संबन्धनियमानुपपत्तिः इन्द्रियमनावत् । ज्ञस्वभावाभावे सति 'आत्मन्येव योगो न मनसेन्द्रियेण वा' इति नियमाभावः । युतसिद्धयोश्च दण्डदण्डिनोः सम्बन्धः, दण्डस्य च प्रसिद्धस्य सतो विशेषणमात्रत्वेनोपादानात्, आत्मनश्च तदुत्पत्ती हिताहित विचारणा विक्रियानुपपत्तेरसाम्यम् । उभयोश्चाज्ञयो: संबन्धेऽप्यज्ञत्वप्रसङ्गः, दुष्टत्वात्, जात्यन्धयोः संबन्धे दर्शनशक्त्यभावात् । 1 इन्द्रियमन: प्रसङ्गात् यदि 'ज्ञायतेऽनेन ज्ञानम्' इति करणमभ्युपगम्यते तेनेन्द्रियाणां मनसश्च ज्ञानत्वप्रसङ्गः विशेषाभावात्, तैरपि ज्ञायत इति । 2 किञ्च, उभयनिष्क्रियत्वात् । सर्वगतस्य तावदात्मनः क्रिया नास्ति, नापि ज्ञानस्य । 'क्रियावत्त्वं द्रव्यस्यैव लक्षणम्' इति वचनात् । ततः क्रियाविरहितस्य कथं कर्तृत्वं करणत्वं वा स्यात् ? यस्यापि मत्तम् - अनित्यगुणव्यतिरेकाच्छूद्धः पुरुषो नित्यश्च निर्विकारस्यात् इति तस्य ज्ञानं करणं न भवितुमर्हति । कुतः अनभिसंबन्धात् । या बुद्धिः इन्द्रियमनोऽहङ्कारमत्युपनीता आलोचनसंकल्पाभिमानाध्यवसायरूपा सा प्रकृतिः पुरुषः पुनरविश्रियः शुद्धश्च तस्य सा करणं कथं स्यात् ? क्रियापरिणतस्य हि देवदत्तस्य लोके करणसंप्रयोगो दृष्टः । इत्येवमादि योज्यम् । नापि कर्तृसाधनत्वं युज्यते । लोके हि करणत्वेन प्रसिद्धस्यासेः, तत्प्रशंसापरायामभिधानप्रवृत्तौ समीक्षितायां "तैक्ष्ण्यगौरवकाठिन्याहितविशेषोऽयमेव छिनत्ति" इति कर्तृधर्माध्यारोपः क्रियते, न च तथा ज्ञानं करणत्वेन प्रसिद्धमस्ति पूर्वदोषोपपत्तेः । अतोऽस्य कर्तृत्वमयुक्तम् । नव भावसाधनत्वमुपपत्तिमत् अविक्रियस्य तत्परिणामाभावात् विक्रियास्वभावस्य हि वस्तुनस्तदुसादेवादिदर्शनात् 'पचनं पाकः' इत्येवमादि भावनिर्देशो युक्तः नाकाशस्येति । किञ्च फलाभावात् । ज्ञानं हि प्रमाणमिष्टम् प्रमाणेन च फलवता भवितव्यम् न पाववोधनमन्तरेण फलमन्यदुपलभ्यते । तस्मादन्येन ज्ञानेन भवितव्यं यस्मिन् सति सा ज्ञातिरवबोधः फलमात्मनो भवति, तच्च नास्त्यतो न भावसाधनत्वम् । विकास के हेतु - तज्ज्ञानम् । अधिगमश्चात्र न भावान्तरमिति 'फले प्रामाण्योपचार:' इति चाप्युक्तम् ; मुख्याभावात् । आकारभेदात् फलप्रमाणपरिकल्पना चायुक्ता; आकाराकारवतोर्भेदाभेदयोरनेकदोषोपपत्तेः । निर्विकल्पकत्वाच्च तत्त्वस्य आकारकल्पनाभावः । बाह्यवस्त्वाकारापोहे अन्तरङ्गाकारानुपपत्तिश्चेति । जैनेन्द्राणां तु परमर्षिसर्वज्ञप्रणीतनयभङ्गगहन प्रपञ्चविपश्चितां स्याद्वादप्रकाशोन्मीलितज्ञानचक्षुषाम् एकस्मिन्नप्यर्थेऽनेक पर्यायसंभवादुपपद्यते इति विसृष्टार्थमेतत् । ज्ञान का विकास पुढविकाइते हितो आउक्कातियाण अनंतभागेण विसुद्धतरं नाणमक्खरं, एवं कमेणं तेउ वाउ वणस्स ति - बे इंदिय- तेइंदियचतुरिदिय अचंदिवस दिवाण व विशुद्धतरं भवति । Y Jain Education International नंदो , I १. क्षयोपशम भाव' २. क्षायिक भाव --- 'एकविधं' एकप्रकारम्, आवरणाभावात् क्षयस्यैकरूपत्वात् । केवलं मत्वादिनिरपेक्षं केवलं च १. तत्त्वार्थवार्तिक १, पृ. ४५-४७ २. नंदी चूर्ण, पृ. ५६ ३. नंदी, सू. ८ ४. हारिभद्रीया वृत्ति, पृ. ४३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282