Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ર
चन्द्रप्रशतिसूत्रे
मूलम् -- उदयम्मि अट्ठ भणिया, भेयग्धाए दुवे च पडिवत्ती । चत्तारि मुहुत्तगईए, होंति बिइयम्मि पडिवत्ती ॥१५॥
छाया - उदये अष्ट भणिताः, भेदघाते द्वे व प्रतिपत्ती ।
चतस्रः मुहूर्त्तगतौ, भवन्ति द्वितीये प्रतिपत्तयः ||१५||
-
व्याख्या – 'उदयम्मि' उदये उदयशब्दोपलक्षिते प्रथमे प्राभृतप्राभृते 'अट्ठ' अष्टौ अष्टसंख्यका प्रतिपत्तयः 'भणिया' भणिताः कथिताः तीर्थकर गणधरैरिति गम्यते १, 'भेयम्घा ' भेदघाते भेदघातोपलक्षिते द्वितीये प्राभृतप्राभृते 'दुवे च' द्वे च द्विसंख्यके 'पडिवत्ती प्रतिपत्तीवर्तेते २, ‘चत्तारि' चतस्रः चतुःसंख्यकाः प्रतिपत्तयः, कुत्र ! 'मुहुत्तगईए' मुहूर्त्तगतौ 'मुहु'ताई' इतिशब्दोपलक्षिते तृतीये प्राभृतप्राभृते सन्ति ३ । इत्येवं द्वितीयप्राभृतस्य त्रिषु प्राभृतप्राभृतेषु सर्वाश्चतुर्दशसंख्यकाः प्रतिपत्तयो भवन्तीति ॥ १५ ॥
साम्प्रतं विंशतिमूलप्राभृतेषु मध्ये दशममूलप्राभृत गतद्वाविंशति संख्यकान्तरप्राभृतानामर्थाधिकारान् वर्णयितुं गाथाचतुष्टयमाह - 'आवलिया' इत्यादि ।
मूलम् – आवलिया १ मुहुत्तग्गे २ एवं भागो ३ य जोगस्स ४ । कुला ५ य पुण्णमासी ६ य, संनिवाए ७ य संठिई ८ ॥ १६ ॥ तारगं ९ च णेता इ १०, चंदमग्गत्ति ११ यावरे | देवाण य अज्झयणा १२, मुहुत्ताणं नामया १३ इय ॥१७॥ दिवसा राई यत्ता १४ य, तिहि-गोत्ता १६ भोयणाणि य १७ आइच्च चार १८ मासा १९ य, पंच संवच्छरा २० इय ॥ १८ ॥ जोइसस्स य दाराई, २१ नक्खत्तविस २२ इय । दस पाहुडे एए, बावीसं पाहुडपाहुडा ॥ १९ ॥
छाया - आवलिका १ मुहूर्त्तानं २ एवं भागाश्च ३ योगस्य ४ ।
कुलाश्च ५ पूर्णमासी ६ च, संनिपातश्च ७ संस्थितिः ८ ॥१६॥ तारा ९ च नेता १० इति चन्द्रमार्ग ११ इति चापरस्मिन् । देवानां च अध्ययनानि, १२ मुहूर्त्तानां नामकानि १३ इति च ॥ १७॥ दिवसा रात्रयश्च उक्ताश्च १४ तिथि: - १५ गोत्राणि १६ भोजनानि १७ च । आदित्यचारः १८ मासाश्च १९ संवत्सरा २० इति ॥१८॥ ज्योतिषश्च द्वाराणि, २१ नक्षत्रविषय २२ इति ।
दशमे प्राभृते एते, द्वाविंशतिः प्राभृतप्राभृतानि ॥१९॥