Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1009
________________ सुदर्शिनी टीका शास्त्रप्रशस्तिः संघमहिमाधोराजी नगरस्य एष परमोदारो महाधार्मिकः, शुद्धस्थानकवासिधर्मनिरतः सम्यक्त्वभावान्वितः । तत्त्वातत्वपयोविवेचनविधौ हंसायमानः सदा, सर्वेषामुपकारको विजयते श्री जैनसंघोमहान् ॥ ६ ॥ देवे गुरौ धर्मपथे च भक्ति र्येषां सदाचाररुचिश्च नित्यम् । ते श्रावका धर्मरता उदाराः, सुश्राविकाः सन्ति गृहे गृहेऽत्र ॥ ७॥ मङ्गलं भगवान् वीरो मङ्गलं गौतमः प्रभुः। सुधर्मा मङ्गलं जम्बू-जैनधर्मश्च मंगलम् । ॥ इति श्री विश्वविख्यात-जगवल्लभ - प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक- वादिमानमर्दकश्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त — जैनशास्त्राचार्य' पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य- जैनधर्मदिवाकरपूज्यश्री घासीलालबतिविरचिता दशमाङ्गस्य श्री प्रश्नव्याकरणसूत्रस्य सुदर्शन्याख्या व्याख्या समाप्ताः ॥ शुभं भूयात् ॥ ॥ श्रीरस्तु ॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર

Loading...

Page Navigation
1 ... 1007 1008 1009 1010