Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 707
________________ श्री सती शिरोमणी ताराबाई इन्द्रवज्राच्छंद: - " सती प्रधाना सुकृपा निधाना सतीषु सारा सुविचारधारा | विभाति गच्छे दरियापुरीये 'तारा सती' स्वच्छतराविभूतिः ॥ १ ॥ " भद्राऽस्तिभावेन विनीतभावा सवर्तिनी या सरलस्वभावा । 'हीराsभिधाना' रुचिरस्वभावा चकास्ति साध्वी गुणरत्नभाभिः ॥२॥ “ यमेषु मग्ना नियमेषु लग्ना भग्नानयाकाऽपि तपस्तटान्तात् सेवाशतैरञ्जयतीव साध्वीर्विभाति सेयं 'विमला ' सतीषु ||३|| अनुष्टुपूच्छंदः 'इन्दुबाई ' विभातीन्दोः कलेव विमला सदा । विनम्रभक्तिसम्पन्ना साध्वीमध्ये विराजते ||४|| इन्द्रवज्राच्छंद धर्मे सुशीला नियमे सुशीला व्रते सुशीला विनये सुशीला । चारित्रशीला यतिधर्मशीला नाम्ना 'सुशीला' जगति प्रसिद्धा ॥५॥ उषा विशेषा शुभधर्मलेश्या न दोषशेषा विनिवृत्तकामा । वाच्छाविशिष्टा विनयादिवृत्तौ यस्या 'उषा' ऽऽस्ते शुभनामधेयम् ||६|| हंसस्य चचुर्जलदुग्धभेदं करोति शास्त्रे सदसद्विवेकम् । कुर्या कथं स्वं स्वजनं विबोध्य 'हंसाबाई' सती रूपमकारि किंनु ॥७॥ न लोचने मे स्वहिताय गेहे विचारयन्ती समवस्थिता या । प्रवज्यजाता शिवशुद्धमार्गे 'सुलोचनाबाई' सती प्रसिद्धा ||८|| सुखस्य दुःखस्य च कारणं य-जाते तु तस्मिन्नपि हर्षमेति । इत्थं स्वभावेन विराजते या चकास्ति 'हर्षाबाई ' शुभनामतस्याः || ९ || वसन्ततिलका सम्यक्त्ववर्षणपरास्वपराऽर्थसिद्धये औदार्यभावमवलंब्य मुदं वहन्ती । सेवा - सभक्ति - विनया - Sम्बु- धरा धराया - वर्षिष्यतीति गुरुभिर्धुषिताऽस्ति 'वर्षा' | १० बाई 'मनोरमा' साध्वी, धर्मकार्ये मनोरमा । शुद्धभावेन संयुक्ता, शास्त्रस्वाध्यायतत्परा ||११|| 'इन्दिराबाई' साध्वी च साध्वाचारपरायणा । विनम्रा भक्तिभावेन, षट्कायप्रतिपालिका ॥ १२॥ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧

Loading...

Page Navigation
1 ... 705 706 707 708 709