Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
॥श्री।। सति शिरोमणि केशरबाई महासतीजी तथा विदुषि वसुमतिबाई
इन्द्रवज्रा छन्दः पर्यायतो ज्येष्ठतया स्वगच्छे चित्तैकधीरा सरलस्वभावा । श्री पार्वतीबाई' विशुद्धभावैः विराजते सर्व सतीषु मुख्या ॥१॥ प्रवर्तिनी 'केशरबाई' गच्छे गच्छस्य कार्येष्वनिशं समर्था । चारित्रसंरक्षणहेतुकार्ये प्रवर्तते प्रेरयतीव साध्वीः ॥२॥ विचक्षणायाऽति विनीतबुद्धिः मोक्षस्य मार्गे सततं प्रयाति । विनीतभावेन करोति सेवां 'प्रभावतीबाई' गुणैगरिष्ठा ॥३॥
दुतविलम्बितछन्दः वसुमती शिवमागविधायिनी विमलभाव सतीषु शिरोमणिः । अमलशासनतत्त्वविकाशिनी विजयते गुणगौरवशासने ॥४॥
अनुष्टुप् छन्दः द्योतते 'दमयन्तीयं' संयमाराधनोद्यता । विनीतभावसम्पन्ना शुद्धा गुणवती सती ॥५।।
इन्द्रवज्रा छन्दः स्वकार्यदक्षा परकार्यदक्षा विवेकदक्षा विनयेषु दक्षा । सेवासु दक्षा यतनासु दक्षा श्री दीक्षिताबाई' सतीसु दक्षा ॥६॥ भद्राऽस्ति भावेन विनोतभावा सद्वतिनी या सरलम्वभावा । 'हीराऽभिधाना' रुचिरस्वभावा चकास्ति साध्वीगुणरत्नमाभिः ॥७॥ विशुद्धभावा सरलस्वभावा शीलप्रभावा विषये विरक्ता । समाधिभावं भजतीति नित्यं विनम्रभाषा 'सविता' सती या ॥८॥ विनीतताभावसमाश्रयेण सेवाऽधिकारेषु परायणा या । 'प्रवीणबाई' विनये विवेके प्रावीण्यभावं विदधाति नित्यम् ॥९॥
___ अनुष्टुप्छन्दःविनयादिगुणोर्मिभिः संयुता सरला सती। 'उर्मिलाबाई' मुदिता सेवाभावेषु वर्तते ॥१०॥
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
Loading... Page Navigation 1 ... 706 707 708 709