Book Title: Aetihasik Ras Sangraha Part 2
Author(s): Vijaydharmsuri
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जिंदजसशंपपूरभद्रनगपोचि [स्थ] श्रावकगोष्टिकैरशेषकर्मक्षयार्थ स्वसंतानभवाब्धितर [णार्थच] न्यायोपार्जितवित्तेन कारितः ॥ १ ॥
परवादिदर्पमथनं हेतुनयसहस्रभंगकाकीर्ण । भव्यजनदुरितशमनं 'जिनेंद्रवरशासनं जयति ॥ १ आसीद्रीयनसंमतः शुभगुणो भास्वत्प्रतापोज्व(ज्व)लो ..
विस्पष्टप्रतिभः प्रभावकलितो भूपोत्तया (मां) गर्षितः योषित्पीनपयोधरांतरसुखाभिष्वंगसंलालितो
. यः श्रीमान्हरिवर्म उत्तममणिः सद्वंशहारे गुरौ ॥ २ तस्माद (द)भूव भुवि भुरिगुणोपपेतो
- भूपप्र [भ] तमुकुटार्चितपा[द]पीठ । श्रीराष्ट्रकूटकुलकाननकल्पवृक्षः
श्रीमान्विदग्धनृपतिः प्रकटप्रतापः ॥ ३ तस्माद्भपगणा- - -तमा [ कीतः] परं भाजनं
संभूतः सुतनुः सुतोतिमतिमान् श्री(श्री)मंमटो विश्र(श्रुतिः । येनास्मिन्निजराजवंशगगने चन्द्रायितं चारुणा
तेनेदं पितृशासनं समधिकं कृत्वा पुनः पाल्यते ॥ ४ श्रीबलभद्राचार्य विदग्धनूपपूजितं समभ्यर्च्य । अ (आ) चंद्रा यावद्दत्तं भवते मया - - -॥ ५ [श्रीहस्ति] कुंडिकायां चैत्यगृहं जनमनोहरं भत्तया । श्रीमद्भलभद्रगुरोद्विहितं श्रीविदग्धेन ॥ ६ तस्मिन्लो (ल्लो)कान्समाहृय नानादेशसमाग[ तान् ] । . आचंद्राकस्थितिं यावच्छासनं दत्तमक्षयं ।। ७ रूपक एको देयो वहतामिह विशतेः प्रवहणानां । धर्म- --- -- -- क्रयविक्रये च तथा: ॥ ८
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132